This page has not been fully proofread.

अध्या० १]
 
• मुक्तिकोपनिषत् ॥ १२० ॥
 
मुक्तिकोपनिषत् ॥ १२० ॥
ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् ।
 
मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे ॥ १ ॥
 
हरिः ॐ पूर्णमद इति शान्तिः ॥
 
हरिः ॐ ॥ अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे । सीताभरतसौमित्रिशत्रु-
ब्लाद्यैः समन्वितम् ॥ १ ॥ सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः । अन्यै-
भगवतैश्चापि स्तूयमानमहर्निशम् ॥ २ ॥ धीविक्रियासहस्राणां साक्षिणं निर्वि-
कारिणम् । स्वरूपध्याननिरतं समाधिविरमे हरिम् ॥ ३ ॥ भक्त्या शुश्रूषया
रामं स्तुवन्पप्रच्छ मारुतिः । राम त्वं परमात्मासि सच्चिदानन्दविग्रहः ॥ ४ ॥
इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः । त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम
मुक्तये ॥ ५ ॥ अनायासेन येनाहं मुच्येयं भवबन्धनात् । कृपया वद मे
राम येन मुक्तो भवाम्यहम् ॥ ॥ साधु पृष्टं महाबाहो वदामि शृणु
तत्त्वतः । वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय ॥ ७ ॥ वेदान्ताः के रघुश्रेष्ठ
वर्तन्ते कुत्र ते वद । हनूमन्छृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा ॥ ८ ॥
निःश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः । तिलेषु तैलवद्वेदे वेदान्तः
सुप्रतिष्ठितः ॥ ९ ॥ राम वेदाः कतिविधास्तेषां शाखाश्च राघव । तासूपनि-
षदः काः स्युः कृपया वद तत्त्वतः ॥ १० ॥ श्रीराम उवाच । ऋग्वेदादि-
विभागेन वेदाश्चत्वार ईरिताः । तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा
॥ ११ ॥ ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसंख्यकाः । नवाधिकशतं शाखा
यजुषो मारुतात्मज ॥ १२ ॥ सहस्रसंख्यया जाताः शाखाः साम्नः परन्तप ।
अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे ॥ १३ ॥ एकैकस्यास्तु शाखाया
एकैकोपनिषन्मता । तासामेकाम्मृचं यश्च पठते भक्तितो मयि ॥ १४ ॥ स
मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् । राम केचिन्मुनिश्रेष्ठ मुक्तिरेकेति
चक्षिरे ॥ १५ ॥ केचित्वन्नामभजनात्काइयां तारोपदेशतः । अन्ये तु सांख्ययोगेन
भक्तियोगेन चापरे ॥ १६ ॥ अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः । सालो-
क्यादिविभागेन चतुर्धा मुक्तिरीरिता ॥ १७ ॥ स होवाच श्रीरामः । कैवल्य-
मुक्तिरेव पारमार्थिकरूपिणी । दुराचाररतो वापि मन्नामभजनात्कपे ॥ १८ ॥
१ तद्रूपं.
 
अ. उ. ४२