Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>६५६- ईशाद्युपनिषत्सु -</ignore>
<title>योगशिखोपनिषत् ॥ ११९ ॥</title>
<verse n="1">योगीश्वरं रमानाथं सच्चिदानन्दविग्रहम् ॥
योगशास्त्रप्रवक्तारं नौमि कैवल्यप्राप्तये ॥ १ ॥</verse>
<p n="shanti">ॐ पूर्णमद इति शान्तिः ॥</p>
<verse n="1.1">ॐ योगशिखां प्रवक्ष्यामि सर्वज्ञानेषु चोत्तमाम् । यदा तु ध्यायते मन्त्रं
गात्रकम्पोऽभिजायते ॥ १ ॥<break/> आसनं पद्मकं बद्ध्वा यच्चान्यद्वापि रोचते ।
कुर्यान्नासाग्रदृष्टिं च हस्तौ पादौ च संयतौ ॥ २ ॥<break/> मनः सर्वत्र संयम्य ओंकारं
तत्र चिन्तयेत् । ध्यायेत सततं प्राज्ञो हृत्कृत्वा परमेष्ठिनम् ॥ ३ ॥<break/> एक-
स्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते । ईदृशे तु शरीरे वा मतिमानुपलक्षयेत्
॥ ४ ॥<break/> आदित्यमण्डलं दिव्यं रश्मिज्वालासमाकुलम् । तस्य मध्यगतो वह्निः
प्रज्वलेद्दीपवर्तिवत् ॥ ५ ॥</verse>
<trailer n="1.trailer">इति योगशिखोपनिषत्सु प्रथमः खण्डः ॥ १ ॥</trailer>
<verse n="2.1">दीपशिखायां या मात्रा सा मात्रा परमेष्ठिनः ॥ १ ॥<break/> भिन्दन्ति योगिनः
सूर्यं योगाभ्यासेन वै पुनः ॥ २ ॥<break/> द्वितीयं सुषुम्नाद्वारं परिशुद्धं विसर्पति ।
कपालसंपुटं भित्त्वा ततः पश्यन्ति तत्परम् ॥ ३॥<break/></verse>
<trailer n="2.trailer">इति योगशिखोपनिषत्सु द्वितीयः खण्डः ॥ २ ॥</trailer>
<verse n="3.1">अथ न ध्यायेज्जन्तुरालस्याच्च प्रमादतः । यदि त्रिकालमावर्तेत्स गच्छे-
त्परमं पदम् ॥ १ ॥<break/> पुण्यमेतत्समासाद्य संक्षेपात्कथितं मया । लब्धयोगेन
बोद्धव्यं प्रसन्नं परमेष्ठिनम् ॥ २ ॥<break/> जन्मान्तरसहस्रेषु यदा नाश्नाति किल्बि-
षम् । तदा पश्यन्ति योगेन संसारच्छेदनं परं संसारच्छेदनं परमिति ॥ ३ ॥</verse>
<trailer n="3.trailer">इति योगशिखोपनिषत्सु तृतीयः खण्डः ॥ ३ ॥</trailer>
<p n="shanti2">ॐ पूर्णमद इति शान्तिः ॥</p>
<trailer n="trailer">इत्याथर्वणीया योगशिखोपनिषत्समाप्ता ॥ ११९ ॥</trailer>
</page>