Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६५६-
 
ईशाद्युपनिषत्सु -
 
</ignore>
<title>
योगशिखोपनिषत् ॥ ११९ ॥
 
</title>
<p>
योगीश्वरं रमानाथं सच्चिदानन्दविग्रहम् ॥

योगशास्त्रप्रवक्तारं नौमि कैवल्यप्राप्तये ॥ १ ॥
 
</p>
<p>
ॐ पूर्णमद इति शान्तिः ॥
 
</p>
<verse>
ॐ योगशिखां प्रवक्ष्यामि सर्वज्ञानेषु चोत्तमाम् । यदा तु ध्यायते मन्त्रं

गात्रकम्पोऽभिजायते ॥ १ ॥<break/> आसनं पद्मकं बच्द्ध्वा यच्चान्यद्वापि रोचते

कुर्यान्नासाग्रदृष्टिं च हस्तौ पादौ च संयतौ ॥ २ ॥<break/> मनः सर्वत्र संयम्य ओंका
तन
रं
तत्र
चिन्तयेत् । ध्यायेत सततं प्राज्ञो हृत्कृत्वा परमेष्ठिनम् ॥ ३ ॥<break/> एक-

स्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते । ईदृशे तु शरीरे वा मतिमानुपलक्षयेत्

॥ ४ ॥<break/> आदित्यमण्डलं दिव्यं रश्मिज्वालासमाकुलम् । तस्य मध्यगतो वह्निः

प्रज्वलेद्दीपवर्तिवत् ॥ ५ ॥
 
</verse>
<trailer>
इति योगशिखोपनिषत्सु प्रथमः खण्डः ॥ १ ॥
 
</trailer>
<verse>
दीपशिखायां या मात्रा सा मात्रा परमेष्ठिनः ॥ १ ॥<break/> भिन्दन्ति योगिनः

सूर्यं योगाभ्यासेन वै पुनः ॥ २ ॥<break/> द्वितीयं सुषुम्नाद्वारं परिशुद्धं विसर्पति 1

कपालसंपुटं भित्त्वा ततः पश्यन्ति तत्परम् ॥ ३॥
 
<break/></verse>
<trailer>
इति योगशिखोपनिषत्सु द्वितीयः खण्डः ॥ २ ॥
 
</trailer>
<p>
अथ न ध्यायेज्जन्तुरालस्याच्च प्रमादतः । यदि त्रिकालमावर्तेत्स गच्छे-
स्

त्
परमं पदम् ॥ १ ॥<break/> पुण्यमेतत्समासाद्य संक्षेपात्कथितं मया । लब्धयोगेन

बोद्धव्यं प्रसन्नं परमेष्ठिनम् ॥ २ ॥<break/> जन्मान्तरसहस्रेषु यदा नाश्नाति किल्बि -

म् । तदा पश्यन्ति योगेन संसारच्छेदनं परं संसारच्छेदनं परमिति ॥ ३ ॥
</p>
<trailer>
इति योग शिखोपनिषत्सु तृतीयः खण्डः ३ ॥
 
</trailer>
<p>
ॐ पूर्णमद इति शान्तिः ॥
 
</p>
<trailer>
इत्याथर्वणीया योगशिखोपनिषत्समाप्ता ॥ ११९ ॥
 
</trailer>
</page>