This page has not been fully proofread.

६५२
 
हैशाद्युपनिषत्सु -
 
याजयन्तोऽधीयाना नाध्यापयन्तो ददत्तो न प्रतिगृह्णन्तः शतसंवत्सराभिः
क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते । यायावरा यजन्तो याजयन्तोऽधीयाना
अध्यापयन्तो ददतः प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानं
प्रार्थयन्ते । घोरसंन्यासिका उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वन्तः प्रतिदिव-
समाहृतोछवृत्तिमुपयुञ्जानाः शतसंवत्सराभिः क्रियाभिर्यजन्त आत्मानं
प्रार्थयन्ते ॥ २ ॥ वानप्रस्था अपि चतुर्विधा भवन्ति वैखानसा उदुम्बरा
बालखिल्याः फेनपाश्चेति । तत्र वैखानसा अकृष्टपच्यौषधिवनस्पतिभिर्ग्राम-
बहिष्कृताभिरनिपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निर्वर्तयन्त आत्मानं
प्रार्थयन्ते । उदुम्बराः प्रातरुत्थाय यां दिशमभिप्रेक्षन्ते तदाहृतोदुम्बरबदर-
नीवारयामाकैरनिपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां निर्वर्तयन्त आत्मानं
प्रार्थयन्ते । बालखिल्या जटाधराश्वीरचर्मवल्कलपरिवृताः कार्तिक्यां पौर्णमास्यां
पुष्पफलमुत्सृजन्तः शेषानष्टौ मासान् वृत्त्युपार्जनं कृत्वाऽग्निपरिचरणं कृत्वा
पञ्चमहायज्ञक्रियां निर्वर्तयन्त आत्मानं प्रार्थयन्ते । फेनपा उन्मत्तकाः
शीर्णपर्णफलभोजिनो यत्र यत्र वसन्तोऽग्निपरिचरणं कृत्वा पञ्चमहायज्ञक्रियां
निर्वर्तयन्त आत्मानं प्रार्थयन्ते ॥ ३ ॥ परिव्राजका अपि चतुर्विधा भवन्ति-
कुटीचरा बहूदका हंसाः परमहंसाश्चेति । तत्र कुटीचराः स्वपुत्रगृहेषु
भिक्षाचर्यं चरन्त आत्मानं प्रार्थयन्ते । बहूदकास्त्रिदण्डकमण्डलुशिक्यपक्ष-
जलपवित्र पात्रपादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारिणः साधुवृत्तेषु
ब्राह्मणकुलेषु भैक्षाचर्यं चरन्त आत्मानं प्रार्थयन्ते । हंसा एकदण्डधराः
शिखावर्जिता यज्ञोपवीतधारिणः शिक्यकमण्डलुहस्ता ग्रामैकरात्रवासिनो
नगरे तीर्थेषु पञ्चरात्रं वसन्त एकरात्रद्विरात्रकृच्छ्रचान्द्रायणादि
आत्मानं प्रार्थयन्ते । परमहंसा नदण्डधरा मुण्डाः कन्थाकौपीनवाससो-
sव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रिदण्डकमण्डलु-
शिक्यपक्षजल पवित्र पात्रपादुकासन शिखायज्ञोपवीतानां त्यागिनः शून्यागार-
देवगृहवासिनो न तेषां धर्मो नाधर्मो न चानृतं सर्वसहाः सर्वसमाः सम-
लोष्टाश्मकाञ्चना यथोपपन्नचातुर्वर्ण्यभैक्षाचर्यं चरन्त आत्मानं मोक्षयन्त
- आत्मानं मोक्षयन्त इति ॥ ४ ॥ ॐ तत्सदित्युपनिषत् ॥
 
ॐ पूर्णमद इति शान्तिः ॥
 
इत्याथर्वणीयाश्रमोपनिषत्समाप्ता ॥ ११७ ॥
 
चरन्त