This page has not been fully proofread.


 
आश्रमोपनिषत् ॥ ११७ ॥
 
६५१
 
'सुन्दरी । सत्यमेकं ललिताख्यं वस्तु तदद्वितीयमखण्डार्थं परं ब्रह्म । पञ्चरूप-
परित्यागादस्वरूपप्रहाणतः । अधिष्ठानं परं तत्त्वमेकं सच्छिष्यते महत् ॥
इति । प्रज्ञानं ब्रह्मेति वा अहं ब्रह्मास्मीति वा भाष्यते । तत्त्वमसीत्येव संभा-
ष्यते । अयमात्मा ब्रह्मेति वा ब्रह्मैवाहमस्मीति वा योऽहमस्मि वा सोsह--
मस्मीति वा योऽसौ सोऽहमस्मीति वा या भाव्यते सैषा षोडशी श्रीविद्या
पञ्चदशाक्षरी श्रीमहात्रिपुरसुन्दरी बालाम्बिकेति बगलेति वा मातङ्गीति
स्वयंवर कल्याणीति भुवनेश्वरीति चामुण्डेति चण्डेति वाराहीति तिरस्करि-
गीति राजमातङ्गीति वा शुकश्यामलेति वा लघुश्यामलेति वा अश्वारूढेति
वा प्रत्यङ्गिरा धूमावती सावित्री सारस्वती ब्रह्मानन्दकलेति । ऋचो अक्षरे
परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किटचा करि-
ष्यति । य इत्तद्विदुस्त इमे समासते ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ वाडो मनसीति शान्तिः ॥
 
इति बहृचोपनिषत्समाप्ता ॥ ११६ ॥
 
आश्रमोपनिषत् ॥ ११७ ॥
 
सर्वाश्रमाः समभवन् यस्मात्सोऽयं जनार्दनः ।
कैवल्यावाप्तये भूयात्सदाचाररतान्हि तान् ॥ १ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
 
हरिः ॐ ॥ अथातश्चत्वार आश्रमाः षोडशभेदा भवन्ति । तत्र ब्रह्मचारिण-
श्चतुर्विधा भवन्ति गायत्रो ब्राह्मणः प्राजापत्यो बृहन्निति । य उपनयनादूर्ध्व
त्रिरात्रमक्षारलवणाशी गायत्रीमन्त्रे स गायत्रः । योऽष्टाचत्वारिंशद्वर्षाणि
वेदब्रह्मचर्यं चरेत्प्रतिवेदं द्वादश वा यावग्रहणान्तं वा वेदस्य स ब्राह्मणः ।
स्वदारनिरत ऋतुकालाभिगामी सदा परदारवर्जी प्राजापत्यः । अथवा
चतुर्विंशतिवर्षाणि गुरुकुलवासी ब्राह्मणोऽष्टाचत्वारिंशद्वर्षवासी च प्राजा-
पत्यः । प्रायणानुरोरपरित्यागी नैष्ठिको बृहन्निति ॥ १
॥ गृहस्था अपि
चतुर्विधा भवन्ति वार्ताकवृत्तयः शालीनवृत्तयो यायावरा घोरसंन्यासिका -
श्चेति । तत्र वार्ताकवृत्तयः कृषिगोरक्षवाणिज्यमगर्हितमुपयुञ्जानाः शत-
संवत्सराभिः क्रियाभिर्यजन्त आत्मानं प्रार्थयन्ते । शालीनवृत्तयो यजन्तो न