This page has not been fully proofread.

ईशायुपनिषत्सु -
 
स सोमपूतो भवति । स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वैर्देवै --
ज्ञतो भवति । स सर्वैर्वेदैरनुध्यातो भवति । स सर्वेषु तीर्थेषु स्नातो भवति ।
तेन सर्वैः क्रतुभिरिष्टं भवति । गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति ।
इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति । प्रणवानामयुतं
जप्तं भवति । आचक्षुषः पङ्क्तिं पुनात्यासप्तमात्पुरुषयुगात्पुनातीत्याह भगवान्.
हिरण्यगर्भः । जाप्येनामृतत्वं गच्छत्यमृतत्वं गच्छतीति ॥ ४ ॥
 
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
 
इत्याथर्वणीया महोपनिषत्समाप्ता ॥ ११५ ॥
 
बह्वृचोपनिषत् ॥ ११६ ॥
 
बहु चाख्यब्रह्मविद्यामहाखण्डार्थवैभवम् ।
अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥ १॥
ॐ वाङ्मनसीति शान्तिः ॥
 
हरिः ॐ ॥ देवी ह्येका
 
आसीत् सैव जगदण्डमसृजत् । कामकलेति
विज्ञायते । शृङ्गारकलेति विज्ञायते तस्या एव ब्रह्मा अजीजनत् । विष्णुर--
जीजनत् । रुद्रोऽजीजनत् । सर्वे मरुद्गणा अजीजनन् । गन्धर्वाप्सरसः
किंनरा वादित्रवादिनः समन्तादजीजनन् । भोग्यमजीजनत् । सर्वमजीजनत् ।
सर्वं शाक्तमजीजनत् । अण्डजं स्वेदजमुद्भिज्जं जरायुजं यत्किं चैतत्प्राणि स्थावर-
जङ्गमं मनुष्यमजीजनत् ॥ सैषाऽपरा शक्तिः । सैषा शांभवी विद्या कादि-
विद्येति वा हादिविद्येति वा सादिविद्येति वा रहस्यम् । ओमों वाचि प्रतिष्ठा
सैव पुरत्रयं शरीरत्रयं व्याप्य बहिरन्तरवभासयन्ती देशकालवस्त्वन्त-
रसङ्गान्महात्रिपुरसुन्दरी वै प्रत्यक् चितिः । सैवात्मा ततोऽन्यदसत्यमनात्मा
अत एष ब्रह्मसंवित्तिर्भावाभावकलाविनिर्मुक्ता चिदद्याद्वितीयब्रह्मसंवित्तिः
सच्चिदानन्दलहरी महात्रिपुरसुन्दरी बहिरन्तरनुप्रविश्य स्वयमेकैव विभाति ।
यदस्ति सन्मात्रम् । यद्विभाति चिन्मात्रम् । यत्प्रियमानन्दं तदेतत्सर्वाकारा
महात्रिपुरसुन्दरी । त्वं चाहं च सर्वं विश्वं सर्वदेवता । इतरत्सर्वं महात्रिपुर-
 
१ चिद्विद्या..