This page has not been fully proofread.

महोपनिषत् ॥ ११५ ॥
 
मनिषत् ॥ ११५ ॥
 
नारायणः परंब्रह्म सर्वेषां महसां महः ।
 
अभ्यासाद्यद्विपश्यन्ति सन्तः संसारभेषजम् ॥ १ ॥
 
अथातो महोपनिषदमेव । तदाहुरेको ह वै नारायण आसीन ब्रह्मा न
ईशानो नापो नाभीषोमौ नेमे द्यावापृथिवी न नक्षत्राणि न सूर्यः स एकाकी
नर एव । तस्य ध्यानान्तः स्थस्य यन्नः स्तोममुच्यते । तस्मिन् पुरुषाश्चतुर्दशा-
जायन्त एका कन्या । दशेन्द्रियाणि मन एकादशम् । तेजो द्वादशम् । अह-
कारत्रयोदशः । प्राणाश्चतुर्दश आत्मा । पञ्चदशी बुद्धिः । पञ्चतन्मात्राणि
पञ्चमहाभूतानि । स एष पञ्चविंशकः पुरुषः । तं पुरुषं पुरुषो निवेश्य । नास्य
प्रजा नसंवत्सरा जायन्ते संवत्सरादधि जायन्ते ॥ १ ॥
 
इत्यथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायेत तस्य ध्यानान्तः-
स्थस्य ललाटान्त्रयक्षः शूलपाणिः पुरुषोऽजायत विभ्रच्छ्रियं सत्यं ब्रह्मचर्य
तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि
छन्दांसि तान्यङ्गेष्वाश्रितानि ॥ २ ॥
 
अथ पुनरेव नारायणः सोऽन्यत्कामो मनसा ध्यायेत । तस्य ध्यानान्त:-
स्थस्य ललाटास्वेदोऽपतत् । ता इमाः प्रतता आपस्तासु तेजो हिरण्मय-
मण्डं तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्यायत पूर्वामुखो भूत्वा भूरिति
व्याहृतिर्गायत्रं छन्द ऋग्वेदः । पश्चिमामुखो भूत्वा भुव इति व्याहृतित्रैष्टुभं
'छन्दो यजुर्वेदः । उत्तरामुखो भूत्वा स्वरिति व्याहृतिजगतं छन्दः सामवेदः ।
'दक्षिणामुखो भूत्वों जनदिति व्याहृत्यानुष्टुभं छन्दोऽथर्ववेदः । ॐ सहस्रशीर्ष
देवं सहस्राक्षं विश्वशम्भुवम् । विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ।
विश्वमेवेदं पुरुषं तं विश्वमुपजीवति । ऋषिं विश्वेश्वरं देवं समुद्रेतं विश्वरूप-
णम् । पद्मकोशप्रतीकाशं लम्बत्याकोशसन्निभम् । हृदये चाप्यधोमुखं सन्तते
शीकराभिश्च । तस्य मध्ये महानर्चिर्विश्वार्चिविश्वतोमुखम् । तस्य मध्ये
वह्निशिखा अणीयोर्ध्वा व्यवस्थिता । तस्यै शिखायै मध्ये पुरुषः परमात्मा
व्यवस्थितः । स ब्रह्मा स ईशानः सोऽक्षरः परमः स्वराट् ॥ ३ ॥ .
 
य इदं महोपनिषदं ब्राह्मणोऽधीतेऽश्रोत्रियः श्रोत्रियो भवत्यनुपनीत उप-
नीतो भवति । सोऽनिपूतो भवति । स वायुपूतो भवति । स सूर्यपूतो भवति ।