2026-02-17 03:24:44 by ambuda-bot
This page has not been fully proofread.
૬૪
ईशाद्युपनिषत्सु -
कृतिः । स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः ॥ ३० ॥ एतैः समा-
धिभिः षढभिर्नयेत्कालं निरन्तरम् । देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र परामृतम् ॥ ३१ ॥ भिद्यते हृदयग्रन्थिरिछ-
द्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३२ ॥
मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि । इति यस्तु विजानाति स मुक्तो
नात्र संशयः ॥ ३३ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ वा मनसीति शान्तिः ॥
इति सरस्वतीरहस्योपनिषत्समाप्ता ॥ ११३ ॥
पिण्डोपनिषत् ॥ ११४ ॥
पितॄणां हंसरूपाणां यन्ता श्रीमज्जनार्दनः ।
भवतापप्रणुत्त्यर्थं सततं तमहं श्रये ॥ १ ॥
ॐ पूर्णमदः पूर्णमदमिति शान्तिः ॥
ॐ ॥ देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् । मृतस्य दीयते पिण्डः कथं
गृह्णन्त्यचेतसः ॥ १ ॥ भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । हंसस्त्यक्त्वा
तो देहं कस्मिँस्थाने व्यवस्थितः ॥ २ ॥ त्र्यहं वसति तोयेषु त्र्यहं वसति
चाग्निषु ॥ यहमाकाशगो भूत्वा दिनमेकं तु वायुगः ॥ ३ ॥ प्रथमेन तु
पिण्डेन कलानां तस्य संभवः । द्वितीयेन तु पिण्डेन मांसत्वक्शोणितोद्भवः
॥ ४ ॥ तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते । चतुर्थेन तु पिण्डेन
अस्थि मज्जा प्रजायते ॥ ५ ॥ पञ्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरो मुखम् ।
षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते ॥ ६ ॥ सप्तमेन तु पिण्डेन दीर्घमायुः
प्रजायते । अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् ॥ ७ ॥ नवमेन तु
पिण्डेन सर्वेन्द्रियसमाहृतिः । दशमेन तु पिण्डेन भावानां लवनं तथा ।
पिण्डे पिण्डशरीरस्य पिण्डदानेन संभवः ॥ ८ ॥ हरिः ॐ तत्सदित्युपनिषत् ॥
r
ॐ पूर्णमद इति शान्तिः ॥
seatedणीया पिण्डोपनिषत्समाप्ता ॥ ११४ ॥