This page has not been fully proofread.

६४६
 
ईशाद्युपनिषत्सु -
 
तानि विदुर्ब्राह्मणा ये मनीषिणः । गुह्न त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचों
मनुष्या वदन्ति ॥ ६ ॥ यद्वाग्वदन्तीति मन्त्रस्य भार्गव ऋषिः । त्रिष्टुप्
छन्दः । सरस्वती देवता । क्कीमिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः ।
'नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता । निर्विकल्पात्मना व्यक्ता सा मां
`पातु सरस्वती ॥ क्लीं यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि व स्विदस्याः परमं जगाम ॥ ७ ॥ देवीं वाचमिति
`मन्त्रस्य भार्गव ऋषिः । त्रिष्टुप् छन्दः । सरस्वती देवता । सौरिति बीजशक्तिः
कीलकम् । मन्त्रेण न्यासः ॥ व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् ।
सर्वकामदुधा धेनुः सा मां पातु सरस्वती ॥ सौंः देवीं वाचमजनयन्त देवास्तां
विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्ज दुहाना धेनुर्वागस्मानुपं
सुष्टुतैतु ॥ ८ ॥ उतत्व इति मन्त्रस्य बृहस्पतिऋषिः त्रिष्टुप् छन्दः । सरस्वती
देवता । समिति बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । यां विदित्वाऽखिलं
बन्धं निर्मथ्याखिलवर्त्मना । योगी याति परं स्थानं सा मां पातु सर-
`स्वती ॥ सं उत त्वः पश्यन्न ददर्श वाचमुत वः शृण्वन्न शृणोत्येनाम् । उतो
स्वस्मै तन्वं १ विसत्रे जायेव पत्य उशती सुवासाः ॥ ९ ॥ अम्बितम इति
मन्त्रस्य गृत्समद ऋषिः । अनुष्टुप् छन्दः । सरस्वती देवता । ऐम
- बीजशक्तिः कीलकम् । मन्त्रेण न्यासः । नामरूपात्मकं सर्वं यस्यामा वेश्य तां
पुनः । ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती ॥ ऐं अम्बितमे नदी-
तमे देवितमे सरस्वति । अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥ १० ॥
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती
॥ १ ॥ नमस्ते शारदे देवि काश्मीरपुरवासिनि । त्वामहं प्रार्थये नित्यं
विद्यादानं च देहि मे ॥ २ ॥ अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी ।
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा ॥ ३ ॥ कम्बुकण्ठी सुतानोष्ठी सर्वा-
भरणभूषिता । महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् ॥ ४ ॥ या श्रद्धा
'धारणा मेधा वाग्देवी विधिवल्लभा । भक्तजिह्वाग्रसदना शमादिगुणदायिनी
॥ ५ ॥ नमामि यामिनीनाथले खालंकृत कुन्तलाम् । भवानीं भवसंताप -
निर्वापणसुधानदीम् ॥ ६ ॥ यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति ।
सोऽभ्यच्चैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् ॥ ७ ॥ तस्यैवं स्तुवतो
१ देवाद्या. २ भक्तया स्तौति,