This page has not been fully proofread.


 
ईशाद्युपनिषत्सु -
 
जलक्रीडासु सम्भृतम् । गोपीचन्दनमित्युक्तं द्वारवत्यां सुरेश्वरैः ॥ १६ ॥
-. ष्णगोपीजलक्रीडाकुङ्कुमं चन्दनैर्युतम् । तिलमात्र प्रदायेदं पुनात्या दशमं
कुलम् ॥ १७ ॥ गोपीचन्दनखण्डं तु चक्राकार सुलक्षणम् । विष्णुरूपमिदं
पुण्यं पावनं पीतवर्णकः ॥ १८ ॥ आपो वा अग्र आसन् । तत्र प्रजापतिर्वा -
युर्भूत्वाऽश्राम्यतेदं सृजेयमिति । स तपोऽतप्यत । तत ओङ्कारमपश्यत् ।
ततो व्याहृतीस्ततो गायत्रीम् । गायत्र्या वेदास्तैरिदमसृजत । धूममार्गविस्तृतंः
हि वेदार्थमभिसन्धाय चतुर्दश लोकानसृजत । तत उपनिषदः श्रुतयः
आविर्बभूवुः । अर्चिर्मार्गविस्तृतं वेदार्थमभिसन्धाय सर्वान्वेदान्स-
रहस्योपनिषदङ्गान् ब्रह्मलोके स्थापयामास 1 ताश्वोपादिशद्वैवस्वतेऽन्तरे
सगुणं ब्रह्म चिनानन्दैकरूपं पुरुषोत्तमरूपेण मथुरायां वसुदेवसद्मन्यावि-
र्भविष्यति । तत्र भवत्यः सर्वलोकोत्कृष्टसौन्दर्यक्रीडाभोगा गोपिकास्वरूपैः
परब्रह्मानन्दैकरूपं कृष्णं भजिष्यथ । तत्र श्लोकाः - इति ब्रह्मवरं लब्ध्वा श्रुतयो
ब्रह्मश्लोकगाः । कृष्णमाराधयामासुर्गोकुले धर्मसङ्कुले ॥ १९ ॥ श्रीकृष्णाख्यं
परं ब्रह्म गोपिकाः श्रुतयोऽभवन् । एतत्सम्भोगसम्भूतं चन्दनं गोपीचन्दनं
चन्दनं गोपीचन्दनमित्युपनिषत् ॥ २० ॥
 
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
 
इत्याथर्वणीया गोपीचन्दनोपनिषत्समाप्ता ॥ ११२ ॥
 
सरस्वतीरहस्योपनिषत् ॥ ११३ ॥
प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् ।
 
अखण्ड निर्विकल्पं तद्रामचन्द्रपदं भजे ॥ १ ॥
ॐ वाङ्मनसीति शान्तिः ॥
 
हरिः ॐ ॥ ऋषयो ह वै भगवन्तमाश्वलायनं संपूज्य पप्रच्छुः केनोपायेन
तज्ज्ञानं तत्पदार्थावभासकम् । यदुपासनया तत्त्वं जानासि भगवन्वद ॥ १ ॥
सरस्वतीदशश्लोक्या सऋचा बीजमिश्रया । स्तुत्वा जत्वा परां सिद्धिमलभं
मुनिपुङ्गवाः ॥ २ ॥ ऋषय ऊचुः ॥ कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत ।
महासरस्वती येन तुष्टा भगवती वंद ॥ ३ ॥ स होवाचाश्वलायनः । अस्य
श्रीसरस्वतीदशश्लोकी महामन्त्रस्य । अहमाश्वलायन ऋषिः । अनुष्टुप् छन्दः ।
श्रीवागीश्वरी देवता । यद्वागिति बीजम् । देवीं वाचमिति शक्तिः । प्रणोः