This page has not been fully proofread.

६४२
 
. ईशाद्युपनिषत्सु -
 
शायी स्याद्देवागारेषु वाप्युत । नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् ॥
स्नानं दानं तथा शौचमद्भिः पूताभिराचरेत् । स्तूयमानो न तुष्येत निन्दितो
न शरान् ॥ भिक्षादि वैदल पात्र स्नानद्रव्यमवारितम् । एतां वृत्ति-
भुपासीना घातयन्तीन्द्रियाणि च ॥ विद्याया मनसि संयोगो मनसाकाशश्चा-
काशाद्वायुर्वायोज्यौतिज्र्ज्योतिष आपोऽद्भयः पृथिवी पृथिव्या इत्येषा भूतानां
ब्रह्म प्रपद्यते ॥ ४ ॥ अजरममरमक्षरमव्ययं प्रपद्यते तदभ्यासेन प्राणापानौ
संयम्य तत्र श्लोकाः - वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् । संदश्य
दशनैर्जिह्वां यवमात्रे विनिर्गताम् ॥ माषमात्रां तथा दृष्टिं श्रोत्रे स्थाप्य तथा
भ्रुवि । श्रवणे नासिके न गन्धाय न स्वचं न स्पर्शयेत् ॥ अथ शैवं पदं यत्र
तद्ब्रह्म तत्परायणम् । तदभ्यासेन लभ्यते पूर्वजन्मार्चितात्मनः ॥ अथ तैः
संभूतैर्वायुः संस्थाप्य हृदयं तपः । ऊर्ध्वं प्रपद्यते देहाद्भित्वा मूर्धानम-
व्ययम् ॥ अथाऽयं मूर्धानमस्य देहैषा गतिर्गतिमताम् । ये प्राप्य परमा
गतिं भूयस्ते न निवर्तन्ते परात्परमवस्थात्परात्परमवस्थादिति ॥ ५ ॥
ॐ पूर्णमद इति शान्तिः ॥
 
इत्याथर्वणीया संन्यासोपनिषत्समाप्ता ॥ १११ ॥
 
गोपीचन्दनोपनिषत् ॥ ११२ ॥
 
गोपिकास्वान्त संलीनं श्रीकृष्णाख्यं परं महः ।
 
ब्रह्मानन्दस्वरूपं तत्स्वमात्रमिति चिन्तये ॥ १ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
 
हरिः ॐ ॥ गोपी का नाम । संरक्षणी । कुतः संरक्षणी । लोकस्य नरकान्मृत्योर्भ-
याच्च संरक्षणी । चन्दनं तुष्टिकारणं च । किं तुष्टिकारणम् । ब्रह्मानन्दकार-
णम् । य एवंविद्वानेतदाख्यापयेद्य एतच्च धारयेद्गोपीचन्दनमृत्तिकाया निरुक्तत्या
धारणमात्रेण च ब्रह्मलोके महीयते ब्रह्मलोके महीयत इति ॥ १ ॥ गोप्यो
नाम विष्णुपत्यः स्युस्तासां चन्दनमाह्लादनम् । कश्चाह्लादः । एष ब्रह्मानन्द-
रूपः । काश्च विष्णुपत्यो गोप्यो नाम । या आत्मना ब्रह्मानन्दैकरूपं
कृष्णाख्यं परं धामाजयंस्ता जगत्सृष्टिस्थित्यन्तकारिण्यः प्रकृतिमहदहमाचा
महामायाः । कश्च विष्णुः । परं ब्रह्मैव विष्णुः । कश्वाह्लादः । गोपीचन्दन-
संसक्तमानुषाणां पापसंहरणाच्छुद्धान्तःकरणानां ब्रह्मज्ञानप्राप्तिश्च । य एवं