2026-02-17 03:24:42 by ambuda-bot
This page has not been fully proofread.
६.४०
ईशाद्युपनिषत्सु -
[ उप० ७
ताम्बूलान्ते किञ्चिन्मूलमावर्त्य पुनर्धूपादित्रयभक्ष्यादि निवेद्य मुद्राः सर्वोप-
चारस्य दर्शयित्वा निवेदनमिदमासनं नमः पाद्ये एषोऽर्घ्यः स्वाहेति दक्षिण-
करेऽर्घ्यं इदं स्वधेति पुरखिके मुखे नम इति स्नानेष्वेष गन्धो नमोऽक्षतेषु
ॐ पुष्पाणि नमः पुष्पेष्वेष धूपो दीपो नमो धूपदीपयोः समर्पयामीति नैवे -
चफलताम्बूलेषु निवेदयामि नमो हिरण्ये एष पुष्पाञ्जलिर्नम इति मालाया-
मिति परमं रहस्यमप्रकाश्यं बीजं य एवं वेद स सर्व वेद स सर्व वेद ।
वर्णार्थं लब्धान मन्त्रार्थेन च पीठावरणदेवतावधानेन वा जपति स जपति ।
मुख्यं लब्धांशमासनं मृदुलं भुक्तरिक्तवासः कौसुम्भमाजिष्ठरककम्बलचित्र-
गव्याघ्राजिनं वा यथोक्तमुक्तान्यतरैरा सनान्तरयोजनास्फटिककमलभद्राक्षमणिः
मुक्ताप्रवाल रुद्राक्षकुशग्रन्थिषु वा जपति स जपति । कुशमयी नित्याक्षालनं
चन्दनालेपो धूपेनाभिमन्त्रय पृथगभिमन्त्रणं सद्योजातैः पञ्चभिः प्राणस्थापन-
जीवनतर्पणगुप्तानि च स्वमूले गुह्यं वामेन स्पृशेन्न दर्शयेत् । एवं श्रावणे पवि-
त्रेण मधौ दमनेन जपमालया महानवम्यां तापस्यां चतुर्थ्यां तिललड्डुकैः
सप्तम्यां शीतलचन्दनेन शिवरात्र्यां बिल्वदलमालयाऽन्यस्मिन्पर्वणि महत्यार्च -
यन्ति तेऽर्चयन्ति । मोदकपृथुकलाजस कुरम्भाफलेक्षुनारीकेलापूपानन्यानि च
यथोपदिष्टमाहुतिभिर्जुहोति । जपश्च प्राक्प्रवणे होमोऽन्यथोपास्यः । एवं यः
करोति सोऽमृतत्वं विन्दति स प्रतिष्ठां प्राप्नोति मुक्तिं विन्दति भुक्तिं भुनक्ति
वाचं वदति यशो लभते । इदं रहस्यं यो जानाति स जानाति योऽधीते
सोऽधीते स आनन्दो भवति स नित्यो भवति स विशुद्धो भवति स मुक्तो
भवति स प्रकाशो भवति स दयावान्भवति ज्ञानवान्भवत्यानन्दवान्भवति
विज्ञानवान्भवति विज्ञानानन्दो भवति सोऽमृतत्वं भवत्यमृतत्वं भवतीति ।
ॐ सह नाववत्विति शान्तिः ॥
इति गणेशोत्तरतापिन्युपनिषत्सु षष्ठोपनिषत् ॥ ६ ॥
इत्याथर्वणीया गणेशतापिन्युपनिषत्समाप्ता ॥ ११० ॥