This page has not been fully proofread.

६३०
 
शाधुपनिषत्सु -
 
[ उप० १
तमा भवति । वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचैवोद्यन्ति । परमा वा एषा
छन्दसां यदनुष्टुप् । सर्वमनुष्टुप् । एतं मन्त्रराजं यः पश्यति स पश्यति ।
स भुक्तिं मुक्तिं च विन्दति । तेन सर्वज्ञानं भवति । तदेतन्निदर्शनं भवति-:
एको देवः प्रापको यो वसूनां श्रिया जुष्टः सर्वतोभद्र एषः । मायादेवो
बलगहनो ब्रह्मा तीस्तं देवमीडे दक्षिणास्यम् ॥ भा तू न इन्द्र क्षुमन्तं
चित्रं ग्राभं सङ्गृभाय । महाहस्ती दक्षिणेन ॥ इति सहस्रकृत्वस्तुष्टाव ॥ ४ ॥
अथापश्यन्महादेवं श्रिया जुष्टं मदोत्कटम् । सनकादिमहायोगिवेदविद्भिरुपा-
सितम् ॥ द्रुहिणादिमदेवेशषट्पदा लि विराजितम् । लसस्कर्णं महादेवं
गजरूपधरं शिवम् ॥ स होवाच वरदोऽस्मीति । स तूष्णीं मनसा वत्रे । स
तथेति होवाच । तदेष श्लोकः -- स संस्तुतो दैवतदेवसूनुः सुतं भृगोर्वाक्य-
मुवाच तुष्टः । अवेहि मां भार्गव वक्रतुण्डमनाथनाथं त्रिगुणात्मकं शिवम् ॥
अथ तस्य षडङ्गानि प्रादुर्बभूवुः । स होवाच जपध्वमानुष्टुभं मन्त्रराजं पद--
पदं सषडक्षरम् । इति यो जपति स भूतिमान् भवतीति यूयमन्नाद्या:
भवेयुरिति । तदेतन्निदर्शनम् -- गणानां त्वा गणनाथं सुरेन्द्रं कविं कवीनाम--
तिमेधविग्रहम् । ज्येष्ठराजं वृषभं केतुमेकं सा नः शृण्वन्नूतिभिः सीद शश्वत्
॥ ५ ॥ ते होचुः कथमानुष्टुभं मन्त्रराजमभिजानीम इति । स एतमानुष्टुभः
षट्पदं मन्त्रराजं कथयाञ्चक्रे । स साम भवति । ऋग्वै गायत्री यजुरुष्णग-
नुष्टुप् साम । स आदित्यो भवति । ऋग्वै वसुर्यजू रुद्राः सामादित्या इति ।
स पदो भवति । साम वै षट्पदः । ससागरां सप्तद्वीपां सपर्वतां वसु-
धरां तत्साम्नः प्रथमं पादं जानीयाद्वायस्पोषस्य दातेति । तेन सप्तद्वीपा -
धिपो भवति भूः पतित्वं च गच्छति । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं
द्वितीयं पादं जानीयानिधिदातेति । तेन धनदादिकाष्ठा पतिर्भवति भुवःप-
तित्वं च गच्छति । वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं
जानीयादन्नदो मत इति । तेन देवाधिपत्यं स्वः पतित्वं च गच्छति । ऋग्य-
जुःसामाथर्वाङ्गिरोगणसेवितं ब्रह्मलोकं तु पादं जानीयाद्रक्षोहण इति ।
तेन देवाधिपत्यं ब्रह्माधिपत्यं च गच्छति । वासुदेवादिचतुर्व्यूह सेवितं विष्णु-
लोकं तत्साम्नः पञ्चमं पादं जानीयाइलगहन इति । तेन सर्वदेवाधिपत्यं
विष्णुलोकाधिपत्यं च गच्छति । ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं तालाम्नः
षष्ठं पादं जानीयात् । तेन वक्रतुण्डाय हुमिति यो जानीयात्सोऽमृतत्वं च