This page has not been fully proofread.

६२८
 
ईशाद्युपनिषत्सु -
 
कुतस्त्वया ज्ञातमिति । पुनः स तमुवाच षडाननादिति । पुनः स तमुत्राचः
तेनाथ कुतो ज्ञातमिति । पुनः स तमुवाच तेनेशानादिति । पुनः स तमुवाच
कथं तस्मात्तेन ज्ञातमिति । पुनः स तमुवाच तदुपासनादिति । पुन: स
तमुवाच भगवन्कृपया मे सरहस्यं सर्वं निवेदयेति । स तेन पृष्टः सर्व
निवेदयामास तत्त्वम् । पशुपतिरहंकाराविष्टः संसारी जीवः स एव पशुः ।
सर्वज्ञः पञ्चकृत्यसंपन्नः सर्वेश्वर ईशः पशुपतिः । के पशव इति पुनः स
तमुवाच जीवाः पशव उक्ताः । तत्पतित्वात्पशुपतिः । स पुनस्तं होवाच
कथं जीवाः पशव इति । कथं तत्पतिरिति । स तमुवाच यथा तृणाशिनों
विवेकहीनाः परप्रेष्याः कृष्यादिकर्मसु नियुक्ताः सकलदुःखसहाः स्वस्वामि-
बध्यमाना गवादयः पशवः । यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः ।
तज्ज्ञानं केनोपायेन जायते । पुनः स तमुवाच विभूतिधारणादेव । तत्प्रकारः
कथमिति । कुत्र कुत्र धार्यम् । पुनः स तमुवाच सद्योजातादिपञ्चब्रह्ममन्त्रैर्भस्म
संगृह्यग्निरिति भस्मेत्यनेनाभिमध्य मानस्तोक इति समुद्धृत्य जलेन संसृज्य
त्र्यायुषमिति शिरोललाटवक्षः स्कन्धेष्विति तिसृभिख्यायुषैस्त्रियम्बकैस्तिस्रो
रेखाः प्रकुर्वीत । व्रतमेतच्छाम्भवं सर्वेषु वेदेषु वेदवादिभिरुक्तं भवति ।
तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय । अथ सनत्कुमारः प्रमाणं पृच्छति ।
त्रिपुण्ड्रधारणस्य त्रिधा रेखा आललाटादाचक्षुषोराभ्रुवोर्मध्यतश्च । याऽस्य
प्रथमा रेखा सा गार्हपत्यश्चाकारो रजो भूर्लोकः स्वात्मा क्रियाशक्तिः
ऋग्वेदः प्रातःसवनं प्रजापतिर्देवो देवतेति । याऽस्य द्वितीया रेखा सा दक्षि-
णान्निरुकारः सत्त्वमन्तरिक्षमन्तरात्मा चेच्छाशक्तिर्यजुर्वेदो माध्यन्दिनसवनं
विष्णुदेवो देवतेति । याऽस्य तृतीया रेखा साssहवनीयो मकारस्तमो द्यौर्लोकः
परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं महादेवो देवतेति त्रिपुण्ड्रे
भस्मना करोति । यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा स महापात-
कोपपातकेभ्यः पूतो भवति । स सर्वान्देवान्ध्यातो भवति । स सर्वेषु तीर्थेषु
स्नातो भवति । स सकलरुद्र मंत्रजापी भवति । न स पुनरावर्तते न स.
पुनरावर्तते ॥ इति । ॐ सत्यमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
 
ॐ आप्यायन्त्विति शान्तिः ॥
 
इति श्रीजाबाल्युपनिषत्समाप्ता ॥ १०८ ॥ ..