2026-02-17 03:24:38 by ambuda-bot
This page has not been fully proofread.
जाबाल्युपनिषत् ॥ १०८ ॥
कलिसंतरणोपनिषत् ॥ १०७ ॥
यद्दिव्यनाम स्मरतां संसारो गोष्पदायते ।
सा नव्यभक्तिर्भवति तद्रामपदमाश्रये ॥ १ ॥
ॐ सह नाववत्विति शान्तिः ॥
हरिः ॐ ॥ द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां पर्यटकलिं
संतरेयमिति । स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं तच्छृणु
ये कलिसंसारं तरिष्यसि । भगवत आदिपुरुषस्य नारायणस्य नामोच्चारण-
मात्रेण निर्धूतकलिर्भवति । नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाच
- हिरण्यगर्भः । हरे राम हरे राम राम राम हरे हरे । हरे कृष्ण हरे कृष्ण
कृष्ण कृष्ण हरे हरे ॥ १ ॥ इति षोडशकं नाम्नां कलिकल्मषनाशनम् ।
जातः परतरोपायः सर्ववेदेषु दृश्यते ॥ २ ॥ इति षोडशकलावृतस्य जीव-
स्यावरणविनाशनम् । ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डली-
चेति । पुनर्नारदः पप्रच्छ भगवन्कोऽस्य विधिरिति । तं होवाच नास्य विधि-
रिति । सर्वदा शुचिरशुचिर्वा पठन्ब्राह्मणः सलोकतां समीपतां सरूपतां सायु-
ज्यतामेति । यदाऽस्य षोडशीकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति ।
तरति वीरहत्याम् । स्वर्णस्तेयात्पूतो भवति । पितृदेवमनुष्याणामपकारात्पूतो
भवति । सर्वधर्मपरित्यागपापात्सद्यः शुचितामाप्नुयात् । सद्यो मुच्यते सद्यो
मुच्यते इत्युपनिषत् ॥ ३ ॥ हरिः ॐ तत्सत् ॥
ॐ सह नाववत्विति शान्तिः ॥
इति श्री कलिसंवरणोपनिषत्समाप्ता ॥ १०७ ॥
जाबाल्युपनिषत् ॥ १०८ ॥
जाबाल्युपनिषद्वेद्य पदतत्त्वस्वरूपकम् ।
पारमैश्वर्यविभवं रामचन्द्रपदं भजे ॥ १ ॥
ॐ आप्यायन्त्विति शान्तिः ॥
हरिः ॐ ॥ अथ हैनं भगवन्तं जाबालि पैप्पलादिः पप्रच्छ भगवन्मे ब्रूहि
'परमतत्त्वरहस्यम् । किं तत्त्वं को जीवः कः पशुः क ईशः को मोक्षोपाय इति ।
स तं होवाच साधु पृष्टं सर्वं निवेदयामि यथाज्ञातमिति । पुनः स तमुवाच