This page has not been fully proofread.

६२४
 
ईशाद्युपनिषत्सु -
 
मेभ्यः शिष्येभ्यः प्रायच्छत् । अस्याः श्रीमहागरुडब्रह्मविद्याया ब्रह्मा ऋषिः ।
गायत्री छन्दः । श्रीभगवान्महागरुडो देवता । श्रीमहागरुडप्रीत्यर्थे मम
सकलविषविनाशनार्थे जपे विनियोगः । ॐ नमो भगवते अङ्गुष्ठाभ्यां नमः ।
श्रीमहागरुडाय तर्जनीभ्यां स्वाहा । पक्षीन्द्राय मध्यमाभ्यां वषट् । श्रीवि-
ष्णुवल्लभाय अनामिकाभ्यां हुम् । त्रैलोक्यपरिपूजिताय कनिष्ठिकाभ्य
वौषट् । उग्रभयंकर कालानलरूपाय करतलकरपृष्ठाभ्यां फट् । एवं हृदया-
दिन्यासः । भूर्भुवः सुवरोमिति दिग्बन्धः । ध्यानम् । स्वस्तिको दक्षिणं पार्द
वामपादं तु कुञ्चितम् । प्राञ्जलीकृतदोर्युग्मं गरुडं हरिवल्लभम् ॥ १ ॥
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः । तक्षकाः कटिसूत्रं तु हारः
कार्कोट उच्यते ॥ २ ॥ पद्मो दक्षिणकर्णे तु महापद्मस्तु वामके । शङ्खः शिरः-
प्रदेशे तु गुलिकस्तु भुजान्तरे ॥ ३ ॥ पौण्ड्रकालिकनागाभ्यां चामराभ्यां
सुवीजितम् । एलापुत्रकनागाद्यैः सेव्यमानं मुदान्वितम् ॥ ४ ॥ कपिलाक्षं
गरुत्मन्तं सुवर्णसदृशप्रभम् । दीर्घबाहुं बृहत्स्कन्धं नादाभरणभूषितम् ॥५॥
आजानुतः सुवर्णाभमाकण्ठ्योस्तुहिनप्रभम् । कुङ्कुमारुणमाकण्ठं शतचन्द्र-
निभाननम् ॥ ६ ॥ नीलाग्रनासिकावक्रं सुमहच्चारुकुण्डलम् । दंष्ट्राकराल-
वदनं किरीटमुकुटोज्वलम् ॥ ७ ॥ कुङ्कुमारुणसर्वाङ्गं कुन्देन्दुधवलाननम् ।
विष्णुवाह नमस्तुभ्यं क्षेमं कुरु सदा मम ॥ ८ ॥ एवं ध्यायेत्रिसंध्यासु
गरुडं नागभूषणम् । विषं नाशयते शीघ्रं तूलराशिमिवानलः ॥ ९ ॥ ओ-
मीमों नमो भगवते श्रीमहागरुडाय पक्षीन्द्राय विष्णुवल्लभाय त्रैलोक्य-
परिपूजिताय उग्रभयंकर कालानलरूपाय वज्रनखाय वज्रतुण्डाय वज्र-
दन्ताय वज्रदंष्ट्राय वज्रपुच्छाय वज्रपक्षालक्षितशरीराय ओमीकेह्येहि श्रीम-
हागरुडाप्रतिशासनास्मिन्नाविशाविश दुष्टानां विषं दूषय दूषय स्पृष्टानां
नाशय नाशय दन्दशूकानां विषं दारय दारय प्रलीनं विषं प्रणाशय प्रणाशय
सर्वविषं नाशय नाशय हन हन दह दह पच पच भस्मीकुरु भस्मीकुरु हुं फट्
स्वाहा ॥ चन्द्रमण्डलसंकाश सूर्यमण्डलमुष्टिक । पृथ्वीमण्डलमुद्राङ्ग श्रीम-
हागरुडाय विषं हर हर हुं फट् स्वाहा ॥ ॐ क्षिप स्वाहा ॥ ओम सच-
रति सचरति तत्कारी मत्कारी विषाणां च विषरूपिणी विषदूषिणी विष-
शोषणी विषनाशिनी विषहारिणी हतं विषं नष्टं विषमन्तः प्रलीनं विषं
प्रनष्टं विषं हतं ते ब्रह्मणा विषं हतमिन्द्रस्य वज्रेण स्वाहा ॥ ॐ नमो