2026-02-17 03:24:37 by ambuda-bot
This page has not been fully proofread.
• गारुडोपनिषत् ॥ १०६ ॥
६२३
फलप्रदाय ओमिति व्याहरेत् । भवबन्धमोचनायेति हीमिति व्याहरेत् ।
सकलविभूतिदायेति क्रोमिति व्याहरेत् । साध्याकर्षणायेति सौरिति व्याहरेत् ।
सर्वमनः क्षोभणायेति श्रीमिति व्याहरेत् । महोमिति व्याहरेत् । चिरंजीविने
वषडिति व्याहरेत् । वशीकुरु वशीकुरु वौषड़िति व्याहरेत् । आकर्षयाकर्षय
हुमिति व्याहरेत् । विद्वेषय विद्वेषय फडिति व्याहरेत् । उच्चाटयोच्चाटय ठठेति
व्याहरेत् । स्तम्भय स्तम्भय खखेति व्याहरेत् । मारय मारय नमः संपन्नाय
नमः संपन्नाय स्वाहा पोषय पोषय परमन्नपरयन्त्रपरतन्त्रांश्छिन्धि च्छिन्धि
ग्रहान्निवारय निवारय व्याधीन्निवारय निवारय दुःखं हरय हरय दारिद्र्यं
विद्रावय विद्रावय देहं पोषय पोषय चित्तं तोषय तोषयेति सर्वमन्त्रसर्वयन्त्र-
सर्वतन्त्रसर्वपल्लवस्वरूपायेति ॐ नमः शिवायेत्युपनिषत् ॥ २ ॥
इति दत्तात्रेयोपनिषत्सु द्वितीयः खण्डः ॥ २ ॥
य एवं वेद । अनुष्टुप् छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता ।
ओमिति बीजम् । स्वाहेति शक्तिः । द्वामिति कीलकम् । अष्टमूर्त्यष्टमन्त्रा
भवन्ति । यो नित्यमधीते वाय्वमिसोमादित्यब्रह्मविष्णुरुद्रैः पूतो भवति ।
गायत्र्या शतसहस्रं जप्तं भवति । महारुद्रशतसहस्रजापी भवति । प्रणवायुत-
कोटिजप्तो भवति । शतपूर्वान्छितापरान्पुनाति । स पङ्क्तिपावनो भवति ।
ब्रह्महत्यादिपातकैर्मुक्तो भवति । गोहत्यादिपातकैर्मुक्तो भवति । तुलापुरु-
षादिदानैः प्रपापानतः पूतो भवति । अशेषपापान्मुक्तो भवति । भक्ष्या-
भक्ष्यपापैर्मुक्तो भवति । सर्वमन्त्रयोगपारीणो भवति । स एव ब्राह्मणो
भवति । तस्माच्छिव्यं भक्तं प्रतिगृह्णीयात् । सोऽनन्तफलमश्रुते । स जीव-
मुक्तो भवतीत्याह भगवान्नारायणो ब्रह्माणमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति दत्तात्रेयोपनिषत्सु तृतीयः खण्डः ॥ ३ ॥
इति दत्तात्रेयोपनिषत्समाप्ता ॥ १०५ ॥
गारुडोपनिषत् ॥ १०६ ॥
विषं ब्रह्मातिरिक्तं स्यादमृतं ब्रह्ममात्रकम् ।
ब्रह्मातिरिक्तं विषवद्ब्रह्ममात्रं खगेडहम् ॥ १॥
ॐ भद्रं कर्णेभिरिति शान्तिः ।
हरिः ॐ ॥ गारुडब्रह्मविद्यां प्रवक्ष्यामि यां ब्रह्मा विद्यां नारदाय प्रोवाच
नारदो बृहत्सेना बृहत्सेन इन्द्राय इन्द्रो भरद्वाजाय भरद्वाजो जीवत्का-