2026-02-17 03:24:36 by ambuda-bot
This page has not been fully proofread.
खण्डः १ ]
दत्तात्रेयोपनिषत् ॥ १०५ ॥
६२१
एते । अथानुमन्त्राञ्जपति । यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद
मन्द्रा । चतस्र ऊर्जं दुदुहे पयांसि व स्विदस्याः परमं जगाम ॥ १ ॥ गौरी-
र्मिमा सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी
बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ २ ॥ ओष्ठापिधाना नकुली दन्तैः
परिवृता पविः । सर्वस्यै वाच ईशाना चारु मामिह वादयेति च वाग्रसः
॥ ३ ॥ ससर्परीरमतिं बाधमाना बृहन्ममाय जमदग्निदत्ता । आसूर्यस्य
दुरिता तनान श्रवो देवेष्वमृतमजुर्यम् ॥ ४ ॥ य इमां ब्रह्मविद्यामेकादश्यां
पठेद्धयग्रीवप्रभावेन महापुरुषो भवति । स जीवन्मुक्तो भवति । ॐ नमो
ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढुं
ममामुष्य ओमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति हयग्रीवोपनिषत्सु द्वितीयोपनिषत् ॥ २ ॥
इति हयग्रीवोपनिषत्समाप्ता ॥ १०४ ॥
दत्तात्रेयोपनिषत् ॥ १०५ ॥
दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।
त्रिपान्नारायणाकारं दत्तात्रेयमुपास्महे ॥ १ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
हरिः ॐ ॥ सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं तारकं तन्नो ब्रूहि
भगवन्नित्युक्तः सत्यानन्दचिदात्मकं सात्त्विकं मामकं धामोपास्वेत्याह । सदा
दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते संसारिणो भवन्ति नारायणेनैव
विवक्षितो ब्रह्मा विश्वरूपधरं विष्णुं नारायणं दत्तात्रेयं ध्यात्वा सद्वदति ।
दमिति हंसः । दामिति दीर्घ तद्वीजं नाम बीजस्थम् । दामित्येकाक्षरं भवति ।
तदेतत्तारकं भवति । तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् गायत्री
छन्दः । सदाशिव ऋषिः । दत्तात्रेयो देवता । वटबीजस्थमिव दत्तबीजस्थ
सर्वं जगत् । एतदेवैकाक्षरं व्याख्यातम् । व्याख्यास्ये षडक्षरम् । ओमिति
द्वितीयम् । हीमिति तृतीयम् । क्लीमिति चतुर्थम् । ग्लौमिति पञ्चमम् ।
नामिति षट्कम् । षडक्षरोऽयं भवति । योगानुभवो भवति । गायत्री छन्दः ।
सदाशिव ऋषिः । दत्तात्रेयो देवता । द्वमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रे-
१ ब्रूहीत्युवाच .