This page has not been fully proofread.

उप० १ ]
 
हयग्रीवोपनिषत् ॥ १०४ ॥
 

 
६१९
 
त्रिशतं समग्रम् । एते भवन्ति सुकृतस्य लोके येषां कुले संन्यसतीह विद्वान्
॥ ३० ॥ त्रिंशत्पराँत्रिंशदपरास्त्रिंशच परतः परान् । उत्तारयति धर्मिष्ठः
परिव्राडिति वै श्रुतिः ॥ ३१ ॥ संन्यस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि ।
वारिताः पितरस्तेन इति वेदानुशासनम् ॥ ३२ ॥ अथ खलु सोम्येमं सना -
तनमात्मधर्मं वैष्णवीं निष्ठां नासमाप्य प्रब्रूयात् । नानूचानाय नानात्मविदे
नावीतरागाय नाविशुद्धाय नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः ।
तदेतदृचाभ्युक्तम्--- विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽह-
मस्मि । असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ॥ ३३ ॥
यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । अस्मा इमामुपसन्नाय
सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ ३४ ॥ अध्यापिता ये गुरुं नाद्रि-
यन्ते विप्रा वाचा मनसा कर्मणा वा । यथैव तेन न गुरुर्भोजनीयस्तथैव
चान्नं न भुनक्ति श्रुतं तत् ॥ ३५ ॥ गुरुरेव परो धर्मो गुरुरेव परा गतिः ।
एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति । तस्य श्रुतं तथा ज्ञानं स्त्रवत्यामघटा-
म्बुवत् ॥ ३६ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । स ब्रह्मवित्परं
प्रेयादिति वेदानुशासनम् ॥ ३७ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
 
ॐ पूर्णमद इति शान्तिः ॥
 
इति शाट्यायनीयोपनिषत्समाप्ता ॥ १०३ ॥
 
हयग्रीवोपनिषत् ॥ १०४॥
 
स्वज्ञोऽपि यत्प्रसादेन ज्ञानं तत्फलमाप्नुयात् ।
सोऽयं हयास्यो भगवान्हृदि मे भातु सर्वदा ॥ १ ॥
 
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
 
हरिः ॐ ॥ नारदो ब्रह्माणमुपसमेत्योवाचाघीहि भगवन् ब्रह्मविद्यां वरिष्ठां
यया चिरात्सर्वपापं व्यपोह्य ब्रह्मविद्यां लब्ध्वैश्वर्यवान्भवति । ब्रह्मोवाच हय-
ग्रीवदैवत्यान्मन्त्रान्यो वेद स श्रुतिस्मृतीतिहासपुराणानि वेद । स सर्वैश्वर्य-
वान्भवति । त एते मन्त्राः - विश्वोत्तीर्णस्वरूपाय चिन्मयानन्दरूपिणे । तुभ्यं
नमो हयग्रीव विद्याराजाय स्वाहा स्वाहा नमः ॥ १ ॥ ऋग्यजुः सामरूपाय वेदा-
 
१ त्रिशतं कुलानाम्.