2026-02-17 03:24:34 by ambuda-bot
This page has not been fully proofread.
६१६
रणेन
ईशाद्युपनिषत्सु -
तु ।
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ॥ ६९ ॥ अवाच्यं प्रणव-
स्याग्रं यस्तं वेद स वेदवित् । ह्रस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं हुतम् । द्वाद-
शान्तगतं मन्त्रं प्रसादं मन्त्रसिद्धये ॥ ७० ॥ सर्वविघ्नहरश्चायं प्रणवः सर्व-
दोषहा । आरम्भश्च घटश्चैव पुनः परिचयस्तथा ॥ ७१ ॥ निष्पत्तिश्चेति कथिता -
श्चतस्रस्तस्य भूमिकाः । कारणत्रयसंभूतं बाह्यं कर्म परित्यजन् ॥ ७२ ॥ आन्तरं
कर्म कुरुते यत्रारम्भः स उच्यते । वायुः पश्चिमतो वेधं कुर्वन्नापूर्य सुस्थिरम्
॥ ७३ ॥ यत्र तिष्ठति सा प्रोक्ता घटाख्या भूमिका बुधैः । न सजीवो न
निर्जीवः काये तिष्ठति निश्चलम् । यत्र वायुः स्थिरः खे स्यात्सेयं प्रथम-
भूमिका ॥ ७४ ॥ यन्त्रात्मना सृष्टिलयौ जीवन्मुक्तिदशागतः । सहजः कुरुते
योगं, सेयं निष्पत्तिभूमिका ॥ ७५ ॥ इत्येतदुपनिषदं योऽधीते सोऽग्नि-
तो भवति । स वायुपूतो भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो
भवति । स जीवन्मुक्तो भवति । तदेतदृचाभ्युक्तम्-तद्विष्णोः परमं पदं सदा
पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः
समिन्धते । विष्णोर्यत्परमं पदमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
इति वराहोपनिषत्सु पञ्चमोऽध्यायः ॥ ५ ॥
ॐ सह नाववत्विति शान्तिः ॥
इति वराहोपनिषत्समाप्ता ॥ १०२ ॥
शाट्यायनीयोपनिषत् ॥ १०३ ॥
शाट्यायनी ब्रह्मविद्याखण्डाकारसुखाकृति ।
यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥ १ ॥
ॐ पूर्णमद इति शान्तिः ॥
हरिः ॐ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषया-
सक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ १ ॥ समासक्तं सदा चित्तं जन्तोर्विषयगो-
चरे । यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ २ ॥ चित्तमेव हि
संसारस्तत्प्रयत्नेन शोधयेत् । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥३॥
नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रति धाम । विष्णुक्रान्तं वासुदेवं
...विजानन्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥ ४ ॥ अथाह यत्परं ब्रह्म सनातनं
१ करणत्रय.