This page has not been fully proofread.

अध्या० २ ]
 
• वराहोपनिषत् ॥ १०२ ॥
 
૬૦′
॥५॥ ब्राह्मण्यं च महाविष्णोर्वेदान्तश्रवणादिना । अतिवर्णाश्रमं रूपं सच्चिदा-
नन्दलक्षणम् ॥६॥ यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति । अहमेव
सुखं नान्यदन्यच्चेन्नैव तत्सुखम् ॥७॥ अमदर्थं न हि प्रेयो मदर्थं न स्वतः प्रियम् ।
परप्रेमास्पदतया मा न भूवमहं सदा ॥ ८ ॥ भूयासमिति यो द्रष्टा सोsहं
विष्णुर्मुनीश्वर । न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशैकबन्धना ॥ ९ ॥ स्वप्रकाश
तमात्मानमप्रकाशः कथं स्पृशेत् । स्वयं भातं निराधारं ये जानन्ति सुनि-
श्चितम् ॥ १० ॥ ते हि विज्ञानसंपन्ना इति मे निश्चिता मतिः । स्वपूर्णात्मा-
तिरेकेण जगज्जीवेश्वरादयः ॥ ११ ॥ न सन्ति नास्ति माया च तेभ्यश्चार्ह
विलक्षणः । अज्ञानान्धतमोरूपं कर्मधर्मादिलक्षणम् ॥ १२ ॥ स्वयं प्रकाश-
मात्मानं नैव मां स्प्रष्टुमर्हति । सर्वसाक्षिणमात्मानं वर्णाश्रमविवर्जितम्
॥ १३ ॥ ब्रह्मरूपतया पश्यन्ब्रह्मैव भवति स्वयम् । भासमानमिदं सर्वं मान-
रूपं परं पदम् ॥ १४ ॥ पश्यन्वेदान्तमानेन सद्य एव विमुच्यते । देहात्म-
ज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् ॥ १५ ॥ आत्मन्येव भवेद्यस्य स नेच्छ-
नपि मुच्यते । सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् ॥ १६ ॥ ब्रह्मानन्दं
'सदा पश्यन्कथं बध्येत कर्मणा । त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम्
॥ १७ ॥ त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः । सर्वगं सच्चिदात्मानं ज्ञान-
चक्षुर्निरीक्षते ॥ १८ ॥ अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् । प्रज्ञानमेव
तद्ब्रह्म सत्यप्रज्ञानलक्षणम् ॥ १९ ॥ एवं ब्रह्मपरिज्ञानादेव मर्त्योऽमृतो भवेत् ।
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्वनम् ॥ २० ॥ विदित्वा स्वात्मनो रूपं न
बिभेति कुतश्चन । चिन्मात्रं सर्वगं नित्यं संपूर्ण सुखमद्वयम् ॥ २१ ॥ साक्षाद्रह्मैक
नान्योऽस्तीत्येवं ब्रह्मविदां स्थितिः । अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं
जगत् ॥ २२ ॥ अन्धं भुवनमन्धस्य प्रकाश तु सुचक्षुषाम् । अनन्तेः
सच्चिदानन्दे मयि वाराहरूपिणी ॥ २३ ॥ स्थितेऽद्वितीयभावः स्यात्को बद्धः
कश्च मुच्यते । स्वस्वरूपं तु चिन्मात्रं सर्वदा सर्वदेहिनाम् ॥ २४ ॥ नैव
देहादिसंघातो घटवशिगोचरः । स्वात्मनोऽन्यदिवाभातं चराचरमिदं
जगत् ॥ २५ ॥ स्वात्ममात्रतया बुद्ध्वा तदस्मीति विभावय । स्वस्वरूपं स्वयं
भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः ॥ २६ ॥ अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्व-
लक्षणम् । ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् ॥ २७ ॥ पश्यन्नपि सदा
नैव पश्यति स्वात्मनः पृथक् । मत्स्वरूपपरिज्ञानात्कर्मभिर्न स बध्यते ॥ २८ ॥