This page has not been fully proofread.

अध्या० १ ]
 
• वराहोपनिषत् ॥ १०२ ॥
 
६०३
 
पिण्डिका ॥ १२ ॥ सर्वेषां दोषरत्नानी सुसमुद्रिकयानया । दुःखशृङ्खलया
नित्यमलमस्तु मम स्त्रिया ॥ १३ ॥ यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क
भोगभूः । स्त्रियं त्यक्त्वा जगत्यक्तं जगत्यक्त्वा सुखी भवेत् ॥ १४ ॥ अल-
भ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् । लब्धो हे गर्भपातेन प्रसवेन च बाधते
॥ १५ ॥ जातस्य ग्रहरोगादि कुमारस्य च धूर्तता । उपनीतेऽप्यविद्यत्वमनु-
द्वाहश्च पण्डिते ॥ १६ ॥ यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः । पुत्रदुःखस्य
नास्त्यन्तो धनी चेम्रियते तदा ॥ १७ ॥ न पाणिपादचपलो न नेत्रचपलो
यतिः । न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः ॥ १८ ॥ रिपौ बद्धे स्वदेहे
च समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेष्विव ॥ १९ ॥
अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते । धर्मार्थकाममोक्षाणां प्रसह्य
परिपन्थिनि ॥ २० ॥ नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् ।
कोपस्य मम वैराग्यदायिने दोषबोधिने ॥ २१ ॥ यन्त्र सुप्ता जना नित्यं
प्रबुद्धस्तत्र संयमी । प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट् ॥ २२ ॥
चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च । चित्वं चिदहमेते च लोका-
चिदिति भावय ॥ २३ ॥ यतीनां तदुपादेयं पारहंस्यं परं पदम् । नातः
परतरं किंचिद्विद्यते मुनिपुङ्गव ॥ २४ ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
ॐ पूर्णमद इति शान्तिः ॥
 
इति याज्ञवल्क्योपनिषत्समाप्ता ॥ १०१ ॥
 
वराहोपनिषत् ॥ १०२ ॥
श्रीमद्वराहोपनिषद्वेद्याखण्डसुखाकृति ।
 
त्रिपान्नारायणाख्यं तद्वामचन्द्रपदं भजे ॥ १ ॥
ॐ सह नाववत्विति शान्तिः ॥
 
हरिः ॐ ॥ अथ ऋभुर्वै महामुनिर्देवमानेन द्वादशवत्सरं तपश्चचार । तद-
asia वराहरूपी भगवान्प्रादुरभूत् । स होवाचोत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति ।
सोदतिष्ठत् । तस्मै नमस्कृत्योवाच भगवन्कामिभिर्यद्यत्कामितं तत्तत्त्वत्सका-
शास्त्रमेऽपि न याचे । समस्तवेदशास्त्रेतिहासपुराणानि समस्त विद्याजालानि
ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः । अतस्त्वद्रूपप्रतिपादिकां ब्रह्म-
विद्यां ब्रूहीति होवाच । तथेति स होवाच वराहरूपी भगवान् । चतुर्विंशति-