This page has not been fully proofread.

याज्ञवल्क्योपनिषत् ॥ १०१ ॥
 
६०१
 
भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥ २५ ॥ सर्वतीर्थफलं लभते य
एवं वेद । देहबन्धाद्विमुच्यते इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
 
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
 
इति कृष्णोपनिषत्समाप्ता ॥ १०० ॥
 
याज्ञवल्क्योपनिषत् ॥ १०१ ॥
संन्यासज्ञानसंपन्ना यान्ति यद्वैष्णवं पदम् ।
 
तद्वैपदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे ॥ १ ॥
ॐ पूर्णमद इति शान्तिः ॥
 
हरिः ॐ ॥ अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन्संन्यास-
मनुब्रूहीति कथं संन्यासलक्षणम् । स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य
गृही भवेत् । गृहाद्वी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रत्र-
 
हा वनाद्वा । अथ पुनर्व्रती वाव्रती वा स्नातको वाऽस्नातको वा
उत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् । तदेके प्राजाप-
त्यामेवेष्टिं कुर्वन्ति । अथवा न कुर्यादाग्नेय्यामेव कुर्यात् । अग्निर्हि
प्राणः । प्राणमेवैतया करोति । त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो
धातवो यदुत सत्त्वं रजस्तम इति । अयं ते योनिर्ऋत्विजो यतो जातो
अरोचथाः । तं जानन्नन्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणा-
निमाजिघ्रेत् । एष वा अग्नेयनिर्यः प्राणं गच्छ स्वां योनिं गच्छ स्वाहे-
त्येवमेवैतदाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघेत् । यदग्निं न विन्देदसु
जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति साज्यं
हरिनामयम् । मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म तदुपासितव्यम् । शिखां यज्ञो-
पवीतं छित्त्वा संन्यस्तं मयेति त्रिवारमुच्चरेत् । एवमेवैतद्भगवन्निति वै याज्ञ-
वल्क्यः॥१॥ अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं यज्ञोपवीती कथं ब्राह्मण इति ।
स होवाच याज्ञवल्क्य इदं प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा । प्राश्याच-
'स्यायं विधिरथ वा परिवाविवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षमाणो
ब्रह्मभूयाय भवति । एष पन्थाः परिव्राजकानां वीराध्वनि वाडनाशके वाप
प्रवेशे वाग्निप्रवेशे वा महाप्रस्थाने वा । एष पन्था ब्रह्मणा हानुवित्तस्तेनेति
१ स्वाज्यं.