This page has not been fully proofread.

गोपालोत्तरतापिन्युपनिषत् ॥ ९९ ॥
 
.५९७
 
तैरथं पूजनीयो वै भद्रकृष्णो निवासिभिः ॥ तद्धर्मगतिहीना ये तस्यां मयि
परायणाः । कलिना प्रसिता ये वै तेषां तस्यामवस्थितिः ॥ यथा त्वं सह
पुत्रैस्तु यथा रुद्रो गणैः सह । यथा श्रियाऽभियुक्तोऽहं तथा भक्तो मम
प्रियः ॥ १६ ॥ स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।
एकमक्षरं यद्विश्रुतं ह्यनेकाक्षरं कथं भूतं स होवाच । तं हि वै पूर्वं ह्येकमे-
वाद्वितीयं ब्रह्मासीत्तस्मादव्यक्तं व्यक्तमेवाक्षरं तस्मादक्षरान्महान्महतो वा
अहंकारस्तस्मा देवाहंकारात्पञ्च तन्मात्राणि तेभ्यो भूतानि तैरावृतमक्षरं भवति ।
अक्षरोsहमोंकारोऽहमजरोऽभयोऽमृतो ब्रह्माभयं हि वै स मुक्तोऽह-
मस्म्यक्षरोऽहमस्मि । सत्तामात्रं विश्वरूपं प्रकाशं व्यापकं तथा । एकमेवा-
द्वयं ब्रह्ममायया तु चतुष्टयम् ॥ रोहिणीतनयो रामो अकाराक्षरसंभवः ।
वैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः ॥ प्राज्ञात्मकोऽनिरुद्धो वै मकाराक्षर-
संभवः । अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ॥ कृष्णात्मिका
जगत्कर्त्री मूलप्रकृतिरुक्मिणी ॥ व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ब्रह्मसंगतः ।
प्रणवेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥ तस्मादोंकारसंभूतो गोपालो विश्व-
संस्थितिः । क्लीमोंकारं च एकत्वं पठ्यते ब्रह्मवादिभिः ॥ मधुरायां विशेषेण
मां ध्यायन्मोक्षमते ॥ अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् । दिव्यध्व-
जातपत्रैस्तु चिह्नितं चरणद्वयम् । श्रीवत्सलाञ्छनं हृत्स्थं कौत्सुभं प्रभया
युतम् ॥ चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् । सुकेयूरान्वितं बाहुं कण्ठं
मालासुशोभितम् ॥ घुमकिरीटमभयं स्फुरन्मकरकुण्डलम् । हिरण्मयं
सौम्यतनुं स्वभक्तायाभयप्रदम् ॥ ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ॥
मध्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा । तत्सारभूतं यद्यस्यां मथुरा सा
निगद्यते । अष्टदिक्पालिभिर्भूमिपद्मं विकसितं जगत् ॥ संसारार्णवसंजातं
सेवितं सममानसैः । चन्द्रसूर्याम्बरौचित्या ध्वजो मेरुर्हिरण्मयः ॥ आतपन्नं
ब्रह्मलोकं ममोर्ध्व चरणः स्मृतम् । श्रीवत्सं च स्वरूपं च वर्तते लान्छनैः
सह । श्रीवत्सलान्छनं तस्मात्कथ्यते ब्रह्मवादिभिः ॥ येन सूर्याग्निवाक्चन्द्र-
तेजसा स्वस्वरूपिणा । वर्तते कौस्तुभमणिं तं वदन्तीशमानिनः ॥ सत्त्वं
रजस्तम इति अहंकारश्चतुर्विधः । पञ्चभूतात्मकः शङ्खः परो रजसि
संस्थितः ॥ चलस्वरूपमत्यन्तं मनश्चक्रं निगद्यते । आद्या माया भवेच्छा
पद्मं विश्वं करे स्थितम् । भाद्या विद्या गदा वेद्या सर्वदा मे करे