2026-02-17 03:24:25 by ambuda-bot
This page has not been fully proofread.
उप०.
9]
गोपालपूर्वतापिन्युपनिषत् ॥ ९८ ॥
गोपालपूर्वतापिन्युपनिषत् ॥ ९८ ॥
श्रीमत्पञ्चपदागारं सविशेषतयोज्वलम् ।
प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥ १॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।
शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥ २ ॥
५९.१
ॐ कृषिर्भूवाचकः शब्दो नश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण
इत्यभिधीयते ॥ १ ॥ ॐ सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे । नमो
वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ १ ॥ ॐ मुनयो ह वै ब्राह्मणमूचुः कः
परमो देवः कुतो मृत्युर्बिभेति कस्य विज्ञानेनाखिलं भाति केनेदं विश्वं
संसरतीति । तदु होवाच ब्राह्मणः श्रीकृष्णो वै परमं दैवतं गोविन्दान्मृत्यु-
बिभेति गोपीजनवल्लभज्ञानेन तज्ज्ञातं भवति स्वाहेदं संसरतीति । तदु
होचुः कः कृष्णो गोविन्दश्च कोऽसाविति गोपीजनवल्लभः कः का स्वाहेति
तानुवाच ब्राह्मणः पापकर्षणो गोभूमिवेदविदितो वेदिता गोपीजनाविद्या-
कलाप्रेरकः । तन्माया चेति सकलं परं ब्रह्मेतद्यो ध्यायति रसति भजति
सोऽमृतो भवति सोऽमृतो भवतीति ॥ १ ॥ ते होचुः किं तद्रूपं किं रसनं
कथं वाsहो तद्भजनं तत्सर्वं विविदिषतामाख्याहीति । तदु होवाच हैरण्यो
गोपवेषमभ्राभं तरुणं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति - सम्पुण्डरीक-
नयनं मेघाभं वैद्युताम्बरम् । द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥
गोपगोपाङ्गनावीतं सुरडुमतलाश्रितम् । दिव्यालंकरणोपेतं रत्नपङ्कजम-
ध्यगम् ॥ कालिन्दीजलकल्लोलासङ्गिमारुतसे वितम् । चिन्तयंश्चेतसा कृष्णं
मुक्तो भवति संसृतेः ॥ इति । तस्य पुना रसनभजनभूमीन्दुसंपातः कामादि
कृष्णायेत्येकं पदं गोविन्दायेति द्वितीयं गोपीजनेति तृतीयं वल्लभायैति -
तुरीयं स्वाहेति पञ्चममिति पञ्चपदीं प्रजपन् पञ्चाङ्गं द्यावाभूमी सूर्याचन्द्रमसौ
सानी तद्रूपतया ब्रह्म संपद्यते ब्रह्म संपद्यत इति ॥ २ ॥ तदेष श्लोकः-
कीमित्येवादावादाय कृष्णाय योगं गोविन्दायोत च । गोपीजनवल्लभाय