This page has not been fully proofread.

पञ्चब्रह्मोपनिषत् ॥ ९६॥
 
.५८७
 
सर्वकर्मफलप्रदम् । अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् ॥ ९ ॥ यत्तत्तत्पु
रुषं प्रोक्तं वायुमण्डलसंवृतम् । पञ्चाग्निना समायुक्तं मत्रशक्तिनियामकम्
॥ १० ॥ पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम् । कोटिकोटिगणाध्यक्षं
ब्रह्माण्डाखण्डविग्रहम् ॥ ११ ॥ वर्णं रक्तं कामदं च सर्वाधिव्याधिभेष-
जम् । सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिष्टक् ॥ १२ ॥ अवस्थात्रि-
तयातीतं तुरीयं ब्रह्मसंज्ञितम् । ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम्
॥ १३ ॥ ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् । आकाशात्मकमव्यक्तमोंकार-
स्वरभूषितम् ॥ १४ ॥ सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्वहिः । अकारादि-
स्वराध्यक्षमाकाशमयविग्रहम् ॥ १५ ॥ पञ्चकृत्य नियन्तारं पञ्चब्रह्मात्मकं बृहत् ।
पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः ॥ १६ ॥ स्वमायावैभवान्सर्वान्सं-
हृत्य स्वात्मनि स्थितः । पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा ॥ १७ ॥
आदावन्ते च मध्येच भाससे नान्यहेतुना । मायया मोहिताः शंभोर्महादेवं
जगद्गुरुम् ॥ १८ ॥ न जानन्ति सुराः सर्वे सर्वकारणकारणम् । न संदृशे
तिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम ॥ १९ ॥ येन प्रकाशते विश्व
यत्रैव प्रविलीयते । तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परं पदम् ॥ २० ॥ पञ्च-
ब्रह्म पैरं विद्यात्सद्यो जातादिपूर्वकम् । दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम्
॥ २१ ॥ पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् । ब्रह्मकार्यमिति ज्ञात्वा
ईशानं प्रतिपद्यते ॥ २२ ॥ पञ्चब्रह्मात्मकं सर्व स्वात्मनि प्रविलाप्य च ।
सोऽहमस्मीति जानीय । द्विद्वान्ब्रह्माऽमृतो भवेत् ॥ २३ ॥ इत्येतद्ब्रह्म जानी-
याद्यः स मुक्तो न संशयः । पञ्चाक्षरमयं शंभुं परब्रह्मस्वरूपिणम् ॥ २४ ॥
नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत् । सर्वं पञ्चात्मकं विद्यात्पञ्चन-
ह्यात्मतत्वतः ॥ २५ ॥ पञ्चब्रह्मात्मिक विद्यां योऽधीते भक्तिभावितः । स
पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् ॥ २६ ॥ एवमुक्त्वा महादेवो
गालवस्य महात्मनः । कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् ॥ २७ ॥ यस्य
श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् । अमतं च मतं ज्ञातमविज्ञातं च शकल
॥ २८ ॥ एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम । विज्ञातं मृण्मयं सर्व
मृदभिन्नं हि कार्यकम् ॥ २९ ॥ एकेन लोहमणिना सर्व लोहमयं यथा ।
विज्ञातं स्यादथैकेन नखानां कृन्तनेन च ॥ ३० ॥ सर्वं कार्ष्णायसं ज्ञातं तद-
 
१ सत्यचित्सुखम् . २ ब्रह्ममिदं विद्यात्. ३ श्रुत्वा.