This page has not been fully proofread.

५८६
 
ईशायुपनिषत्सु -
 
यानो रात्रिकृतं पापं नाशयति । सयमधीयानो दिवसकृतं पापं नाशयति ।
तत्सायं प्रातः प्रयुञ्जानः पापोsपापो भवति । मध्यन्दिनमादित्याभिमुखो -
ऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते । सर्ववेदपारायणपुण्यं लभते ।
श्रीमहाविष्णु सायुज्यमवा मोतीत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
 
ॐ भद्रं कर्णेभिरिति शान्तिः ।
 
इति महावाक्योपनिषत्समाप्ता ॥ ९५ ॥
 
पञ्चब्रह्मोपनिषत् ॥ ९६ ॥
ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः ।
तदखण्ड सुखाकारं रामचन्द्रपदं भजे ॥ १ ॥
ॐ सह नाववखिति शान्तिः ॥
 
हरिः ॐ ॥ अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति । सद्यो
जातमिति । किं भगव इति । अघोर इति । किं भगव इति । वामदेव इति ।
किं वा पुनरिमे भगव इति । तत्पुरुष इति । किं वा पुनरिमे भगव इति ।
सर्वेषां दिव्यानां प्रेरयता ईशान इति । ईशानो भूतभव्यस्य सर्वेषां देव-
योगिनाम् । कति वर्णाः । कति भेदाः । कति शक्तयः । यत्सर्वं तद्रुह्यम् ।
तस्मै नमो महादेवाय महारुद्राय प्रोवाच तस्मै भगवान्महेशः । गोप्या-
गोप्यतरं लोके यद्यस्ति श्रृणु शाकल । सद्यो जातं मही पूषा रमा ब्रह्मा
त्रिवृत्स्वरः ॥ १ ॥ ऋग्वेदो गार्हपत्यं च मन्त्राः सप्त स्वरास्तथा । वर्णं पीतं
क्रिया शक्तिः सर्वाभीष्टफलप्रदम् ॥ २ ॥ अघोरं सलिलं चन्द्र गौरी वेद
द्वितीयकम् । नीरदाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् ॥ ३ ॥ पञ्चाशद्वर्णसं-
युक्तं स्थितिरिच्छा क्रियान्वितम् । शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम् ॥ ४ ॥
सर्वदुष्टप्रशमनं सर्वैश्वर्यं फलप्रदम् । वामदेवं महाबोधदायकं पावकात्मकम्
॥ ५ ॥ विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् । प्रसन्नं सामवेदाख्यं
नानाष्टकसमन्वितम् ॥ ६॥ धीरस्वरमधीनं चाहवनीयमनुत्तमम् । ज्ञानसंहार-
संयुक्तं शक्तिद्वयसमन्वितम् ॥ ७ ॥ वर्णं शुकुं तमोमिश्रं पूर्णबोधकस्
स्वयम् । धामन्त्रयनियन्तारं धामन्त्रयसमन्वितम् ॥ ८ ॥ सर्वसौभाग्यदं नृणां
१ विद्यानां .