This page has not been fully proofread.

महावाक्योपनिषत् ॥ ९५ ॥
 

 
सहस्रं जसं भवति । प्रणवानामयुतं जलं भवति । दशपूर्वान्दशोत्तरान्पु-
-नाति । नारायणपदमवामोति य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति
सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यत्परमं पदम् ॥ इत्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
 
तारसारोपनिषत्सु सामवेदस्तृतीयः पादः ॥ ३ ॥
ॐ पूर्णमद इति शान्तिः ॥
 
इति तारसारोपनिषत्समाप्ता ॥ ९४ ॥
 
महावाक्योपनिषत् ॥ ९५ ॥
यन्महावाक्य सिद्धान्तमहाविद्याकलेवरम् ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ १ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
 
हरिः ॐ ॥ अथ होवाच भगवान्ब्रह्मापरोक्षानुभवपरोपनिषदं व्याख्या-
स्यामः। गुह्याद्द्द्रुह्यपरमेषा न प्राकृतायोपदेष्टव्या । साविकायान्तर्मुखाय परिशु-
श्रूषवे अथ संसृतिबन्धमोक्षयोर्विद्याविद्ये चक्षुषी उपसंहृत्य विज्ञायाविद्यालो-
thrustrate । तमो हि शारीरप्रपञ्चमाब्रह्म स्थावरान्तमनन्ताखिलाजाण्ड-
भूतम् । निखिल निगमोदित सकाम कर्मव्यवहारो लोकः । नैषोऽन्धकारोऽय-
मात्मा । विद्या हि काण्डान्तरादित्यो ज्योतिर्मण्डलं ग्राह्यं नापरम् । असावादित्यो
ब्रह्मेत्यजपयोपहितं हंसः सोऽहम् । प्राणापानाभ्यां प्रतिलोमानुलोमाभ्यां
समुपलभ्यैवं सा चिरं लब्ध्वा त्रिवृदात्मनि ब्रह्मण्यभिध्यायमाने सच्चिदानन्दः
परमात्माविर्भवति । सहस्रभानुमच्छुरितापूरितत्वादलिप्या पारावारपूर इव ।
Sir समाधिः । नैषा योगसिद्धिः । नैषा मनोलयः । ब्रह्मैक्यं तत् । आदित्य-
वर्णं तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवद-
न्यदास्ते धाता पुरस्ताद्यमुदाजहार । शक्रः प्रविद्वान्प्रदिशश्चतस्रः तमेवं
विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते । यज्ञेन यज्ञमयजन्त
देवाः । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्ते । यत्र
पूर्वे साध्याः सन्ति देवाः । सोऽहमर्कः परं ज्योतिरकंज्योतिरहं शिवः । आत्म-
ज्योतिरहं शुक्रः सर्वज्योतिरसावंदोम् । य एतदथर्वशिरोऽधीते । प्रातरधी-
१ लोकान्धस्तमो. २ सैषा समाधिः, ३ वदोत्
 
1
 
1