This page has not been fully proofread.

५७६
 
ईशाद्युपनिषत्सु -
 
[ खण्डः ४
क्षिमध्ये च ककुद्भ्यां गुल्फयोरपि । प्राणस्थाने गले चैव वर्तते मुनिपुङ्गव
॥ २८ ॥ उदानसंज्ञो विज्ञेयः पादयोर्हस्तयोरपि । समानः सर्वदेहेषु व्याप्य
तिष्ठत्यसंशयः ॥ २९ ॥ नागादिवायवः पञ्च त्वगस्थ्यादिषु संस्थिताः । निः-
श्वासोच्छ्वासकासाश्च प्राणकर्म हि सांकृते ॥ ३० ॥ अपानाख्यस्य वायोस्तु
विण्मूत्रादिविसर्जनम् । समानः सर्वसामीप्यं करोति मुनिपुङ्गव ॥ ३१ ॥
उदान ऊर्ध्वगमनं करोत्येव न संशयः । व्यानो विवादकृत्प्रोक्तो मुने वेदा-
न्तवेदिभिः ॥ ३२ ॥ उद्गारादिगुणः प्रोक्तो व्यानाख्यस्य महामुने । धनं-
जयस्य शोभादि कर्म प्रोक्तं हि सांकृते ॥ ३३ ॥ निमीलनादि कूर्मस्य क्षुधा
तु कृकरस्य च । देवदत्तस्य विप्रेन्द्र तन्द्रीकर्म प्रकीर्तितम् ॥ ३४ ॥ सुषु-
नायाः शिवो देव इडाया देवता हरिः । पिङ्गलाया विरञ्चिः स्यात्सरस्वत्या
विरामुने ॥ ३५ ॥ षाधिदेवता प्रोक्ता वरुणा वायुदेवता । हस्तिजिह्वा-
भिधायास्तु वरुणो देवता भवेत् ॥ ३६ ॥ यशस्विन्या मुनिश्रेष्ठ भगवान्भा
स्करस्तथा । अलम्बुसाया अम्ब्वात्मा वरुणः परिकीर्तितः ॥ ३७ ॥ कुहोः क्षु-
देवता प्रोक्ता गान्धारी चन्द्रदेवता । शङ्खिन्याश्चन्द्रमास्तद्वत्पयस्विन्याः प्रजा-
पतिः ॥ ३८ ॥ विश्वोदराभिधायास्तु भगवान्पावकः पतिः । इडायां चन्द्रमा
नित्यं चरत्येव महामुने ॥ ३९ ॥ पिङ्गलायां रविस्तद्वन्मुने वेदविदां
वर । पिङ्गलायामिडायां तु वायोः संक्रमणं तु यत् ॥ ४० ॥ तदुत्तरायणं
प्रोक्तं मुने वेदान्तवेदिभिः । इडायां पिङ्गलायां तु प्राणसंक्रमणं मुने ॥ ४१ ॥
दक्षिणायनमित्युक्तं पिङ्गलायामिति श्रुतिः । इडापिङ्गलयोः संधिं यदा प्राणः
समागतः ॥ ४२ ॥ अमावास्या तदा प्रोक्ता देहे देहभृतां वर । मूलाधारं
यदा प्राणः प्रविष्टः पण्डितोत्तम ॥ ४३ ॥ तदाद्यं विषुवं प्रोक्तं तापसैस्ताप -
सोत्तम । प्राणसंज्ञो मुनिश्रेष्ठ मूर्धानं प्राविशद्यदा ॥ ४४ ॥ तदन्त्यं विषुवं
प्रोक्तं तापसैस्तत्त्वचिन्तकैः । निःश्वासोच्छ्वासनं सर्वं मासानां संक्रमो भवेत्
॥ ४५ ॥ इडायाः कुण्डलीस्थानं यदा प्राणः समागतः । सोमग्रहणमित्युक्तं
तदा तत्त्वविदां वर ॥ ४६ ॥ यदा पिङ्गलया प्राणः कुण्डलीस्थानमागतः ।
तदा तदा भवेत्सूर्यग्रहणं मुनिपुङ्गव ॥ ४७ ॥ श्रीपर्वतं शिरःस्थाने केदारं तु
ललाटके । वाराणसी महाप्राज्ञ भ्रुवोर्घाणस्य मध्यमे ॥ ४८ ॥ कुरुक्षेत्रं
कुचस्थाने प्रयागं हृत्सरोरुहे । चिदम्बरं तु हृन्मध्ये आधारे कमलालयम्
१. पूषाधिदेवता.