Proofing

This page has been fully proofread once and needs a second look.

ele
 
<page>
<ignore>
ईशाद्युपनिषत्सु -
 
</ignore>
<p>
भवति । पङ्क्तिशतसहस्त्रपावनो भवति । शिवसायुज्यमवाप्नोति । न च पुन-
 
1
 

रावर्तते न च पुनरावर्तत इत्यों सत्यमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
 
</p>
<p>
ॐ आप्यायन्त्वितिशान्तिः ॥
 
</p>
<trailer>
इति रुद्राक्षजाबालोपनिषत्समान ॥ ९१ ॥
 
</trailer>
<title text="92_START">
गणपत्युपनिषत् ॥ ९२ ॥
 
</title>
<verse n="mangala">
यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् ।

गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥ १ ॥
</verse>
<p n="shanti">
ॐ भद्रं कर्णेभिरिति शान्तिः ॥ -
 
</p>
<p n="1">
हरिः ॐ ॥ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव

केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि ।

त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यं । ऋतं वच्मि ।

सत्यं वच्मि । अव त्वं माम् । अव वक्तारम् । अ<ref>१</ref>व श्रोतारम् । अव

दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अ
<ref>२</ref>व
पुरस्तात् । अव चोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवा-

धरात्तात् । सर्वतो मां पाहि पाहि समन्तात् । त्वं वाङ्मयस्त्वं चिन्मयः ।

त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं

ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो जायते ।

सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं

त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्प<ref>३</ref>दानि ।

त्वं गुणत्रयातीतः । त्वं कालत्रयातीतः । त्वं देहत्रयातीतः । त्वं मूलाधार-

स्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति

नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं<ref>४</ref> रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं.
वंं
सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः सुवरोम् । गणादिं पूर्वमुच्चार्य वर्णादि
दिं
तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् ॥ १॥<break/> तारेर्णंण<ref>६</ref> रुद्धम् । एत-
 
</p>
<footnote>
१ अत्र श्रोतारं अव वक्तारमिति मु. वैलोम्यं दृश्यते. </footnote>
<footnote>
२ पुरस्तात् दक्षिणात्ता
त्
पश्चात्तात् उत्तरात्तादिति मु. पु. पाठः </footnote>
<footnote>
३ वाक्परिमितानि पदानि </footnote>
<footnote>
४ त्वं रुद्रः

त्वमग्निः इति भिन्नवाक्यानि अन्ते च त्वं भूर्भुवः सुवराप म् इति पाठः
</footnote>
<footnote>
६ तारेण युक्तमेतदेव तव इति मु. उ. पा.
 
</footnote>
</page>