This page has not been fully proofread.

ele
 
ईशाद्युपनिषत्सु -
 
भवति । पङ्क्तिशतसहस्त्रपावनो भवति । शिवसायुज्यमवाप्नोति । न च पुन-
 
1
 
रावर्तते न च पुनरावर्तत इत्यों सत्यमित्युपनिषत् ॥ हरिः ॐ तत्सत् ॥
 
ॐ आप्यायन्त्वितिशान्तिः ॥
 
इति रुद्राक्षजाबालोपनिषत्समान ॥ ९१ ॥
 
गणपत्युपनिषत् ॥ ९२ ॥
 
यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् ।
गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥ १ ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥ -
 
हरिः ॐ ॥ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव
केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यं । ऋतं वच्मि ।
सत्यं वच्मि । अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव
दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव
पुरस्तात् । अव चोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवा-
धरात्तात् । सर्वतो मां पाहि पाहि समन्तात् । त्वं वाङ्मयस्त्वं चिन्मयः ।
त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं
ब्रह्मासि। त्वं ज्ञानमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं
त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि ।
त्वं गुणत्रयातीतः । त्वं कालत्रयातीतः । त्वं देहत्रयातीतः । त्वं मूलाधार-
स्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति
नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं.
सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः सुवरोम् । गणादिं पूर्वमुच्चार्य वर्णादि
तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् ॥ १॥ तारेर्णं रुद्धम् । एत-
 
१ अत्र श्रोतारं अव वक्तारमिति मु. वैलोम्यं दृश्यते. २ पुरस्तात् दक्षिणात्ताव
पश्चात्तात् उत्तरात्तादिति मु. पु. पाठः ३ वाक्परिमितानि पदानि ४ त्वं रुद्रः ॥
त्वमग्निः इति भिन्नवाक्यानि अन्ते च त्वं भूर्भुवः सुवराप अम् इति पाठः
६ तारेण युक्तमेतदेव तव इति मु. उ. पा.