This page has not been fully proofread.

कठरुद्रोपनिषत् ॥ ८६ ॥
 
५४५
 
तयोः शक्तिरजरा विश्वयोनिः ॥ १४ ॥ परिस्रुता हविषा भावितेन प्रसंकोचे
गलिते वैमनस्कः । शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति
परमो गीर्भिरीट्टे । एषर्ग्यजुः पर-
 
॥ १५ ॥ इयं महोपनिषत्रैपुर्या यामक्षयं
तच्च सामायमथर्वेयमन्या च विद्या ॥
 
हरिः ॐ तत्सत् ॥
 
१६ ॥ ॐ ह्रीमों हीमित्युपनिषत् ॥
 
ॐ वाडो मनसीति शान्तिः ॥
इति श्रीत्रिपुरोपनिषत्समाप्ता ॥ ८५ ॥
 
कठरुद्रोपनिषत् ॥ ८६ ॥
 
परिव्रज्या धर्मपूगालंकारा यत्पदं ययुः ।
 
तदहं कठविद्यार्थी रामचन्द्रपदं भजे ॥ १ ॥
ॐ सह नाववत्विति शान्तिः ॥
 
हरिः ॐ ॥ देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् । स प्रजा-
पतिरब्रवीत्सशिखान्केशान्निष्कृष्य विसृज्य यज्ञोपवीतं निष्कृष्य पुत्रं दृष्ट्वा त्वं
ब्रह्मा त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं
विधाता त्वं प्रतिष्ठाऽसीति वदेत् । अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं वष-
ङ्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं स्वष्टाहं प्रतिष्ठास्मीति ।
तान्येतान्यनुव्रजन्नाश्रुमापातयेत् । यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् । प्रद-
क्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति । स स्वग्यों भवति ब्रह्मचारी
वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य तानेनुपाधिभिर्वि-
तत्येष्ट्वा च शक्तितो यज्ञैः । तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च ॥
सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् । द्वादशरात्रं पयोभक्षा
स्यात् । द्वादशरात्रस्यान्ते अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं
वैष्णवं त्रिकपालमग्निं संस्थितानि पूर्वाणि दारुपात्राण्यौ जुहुयात् । मृण्म-
यान्यप्सु जुहुयात् । तैजसानि गुरवे दद्यात् । मा त्वं मामपहाय परागाः ।
नाहं त्वामपहाय परागामिति । गार्हपत्यदक्षिणाभ्याहवनीयेष्वरणिदेशाद्भस्म-
मुष्टिं पित्रेदित्येके । सशिखान्केशान्निष्कृष्य विसृज्य यज्ञोपवीतं भूः स्वाहेत्यप्सु
जुहुयात् । अत ऊर्ध्वमनशनमपां प्रवेशमग्निप्रवेशं वीराध्वानं महाप्रस्थानं
१ रेका स्वर २ नरूपादिभि.
 
अ. उ. ३५