This page has been fully proofread once and needs a second look.

<page>
<ignore>
५४४
 
</ignore>
<ignore>
ईशाद्युपनिषत्सु -
 
</ignore>
<ignore>
त्रिपुरोपनिषत् ॥ ८५ ॥
</ignore>
<verse>
त्रिपुरोपनिषद्वेद्य पारमैश्वर्यवैभवम् ।

अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥ १ ॥
</verse>
<p>
ॐ वाङ्मे मनसीति शान्तिः ॥
 
</p>
<p>
ॐ तिस्रः पुरस्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः संनिविष्टाः । अधि
-
ष्
ठाना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥ १ ॥ नवेव<ref>१</ref>योनीर्नव-

चक्राणि दधिरे नवैव योगा नव योगिन्यश्च । नवानां चक्रा अधिनाथा

स्योना नव भद्रा नव मुद्रा महीनाम् ॥ २ ॥ एका स आसीत्प्रथमा सा

नवासीदासोनविंशा दासोनत्रिंशात् । चत्वारिंशादथ तिस्रः समिधा उशती-

रिव मातरो मा विशन्तु ॥ ३ ॥ ऊर्ध्वज्वलज्ज्वलनं ज्योतिरग्रे तमो वै तिर-

श्रीचीनमजरं तद्जोऽभूत् । आनन्दनं मोदनं ज्योतिरिन्दोरेता उ वै मण्डला

मण्डयन्ति ॥ ४ ॥ यास्तिस्रो रेखाः सदनानि भूस्त्रीस्त्रिविष्टपास्त्रिगुणास्त्रिप्र-

काराः । एतत्त्रयं पूरकं पूरकाणां मैम<ref>२</ref>न्त्री प्रथते मदनो मदन्या ॥ ५ ॥ मद-

न्तिका मानिनी मङ्गला च सुभागा च सा सुन्दरी सिद्धिमत्ता । लज्जा

मतिस्तुष्टिरष्टा च पुष्ट्टा लक्ष्मीरूरुमा ललिता लालपन्ती ॥ ६ ॥ इमां विज्ञाय

सु<ref>३</ref>धिया मदन्ती परिस्रुता तर्पयन्तः स्वपीठम् । नाकस्य पृष्ठे महतो वसन्ति

परं धाम त्रैपुरं चाविशन्ति ॥ ७ ॥ कामो योनिः कामकला वज्रपाणिर्गुहा-

हसा मातरिश्वाश्भ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमा-

तादिविद्या ॥ ८ ॥ षष्ठं सप्तममथं वह्निसारथिमस्या मूलत्रिकमादेशयन्तः ।

कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥ ९ ॥ पुरं हन्त्री -

मुखं विश्वमातू रखेवे रे<error>१</error>खा स्वरमध्यं तदेषा । बृहत्तिथिर्दश पञ्च च नित्या

सषोडशीकं पुरमध्यं बिभर्ति ॥ १० ॥ यद्वा मण्डलाद्वा स्तनबिम्बमेकं मुखं

चाधस्त्रीणि गुहासदनानि । कामी कलां कामरूपां चिकित्वा नरो जायते

कामरूपश्च कामः ॥ ११ ॥ परिस्रुतं झषमाजं फलं च भक्तानि योनी:नीः सुप-

रिष्कृताश्च । निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥ १२ ॥

सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् । इषुभिः पञ्चभि-

र्
धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ १३ ॥ भगः शक्तिर्भगवा-

काम ईश उभा दाताराविह सौभगानाम् । समप्रधानौ समसत्त्वौ समोजौ
</p>
<footnote>
१ योनि नव. </footnote>
<footnote>
२ मन्त्रः प्रथते </footnote>
<footnote>
३ सुधया.
 
</footnote>
</page>