This page has not been fully proofread.

५४४
 
ईशाद्युपनिषत्सु -
 
त्रिपुरोपनिषत् ॥ ८५ ॥
त्रिपुरोपनिषद्वेद्य पारमैश्वर्यवैभवम् ।
अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे ॥ १ ॥
ॐ वा मनसीति शान्तिः ॥
 
ॐ तिस्रः पुरस्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः संनिविष्टाः । अधि
ठाना अजरा पुराणी महत्तरा महिमा देवतानाम् ॥ १ ॥ नवेयोनीर्नव-
चक्राणि दधिरे नवैव योगा नव योगिन्यश्च । नवानां चक्रा अधिनाथा
स्योना नव भद्रा नव मुद्रा महीनाम् ॥ २ ॥ एका स आसीत्प्रथमा सा
नवासीदासोनविंशा दासोनत्रिंशात् । चत्वारिंशादथ तिस्रः समिधा उशती-
रिव मातरो मा विशन्तु ॥ ३ ॥ ऊर्ध्वज्वलज्वलनं ज्योतिरग्रे तमो वै तिर-
श्रीनमजरं तद्वजोऽभूत् । आनन्दनं मोदनं ज्योतिरिन्दोरेता उ वै मण्डला
मण्डयन्ति ॥ ४ ॥ यास्तिस्रो रेखाः सदनानि भूस्त्रीस्त्रिविष्टपास्त्रिगुणास्त्रिप्र-
काराः । एतत्रयं पूरकं पूरकाणां मैन्त्री प्रथते मदनो मदन्या ॥ ५ ॥ मद-
न्तिका मानिनी मङ्गला च सुभागा च सा सुन्दरी सिद्धिमत्ता । लज्जा
मतिस्तुष्टिरष्टा च पुष्ट्टा लक्ष्मीरूमा ललिता लालपन्ती ॥ ६ ॥ इमां विज्ञाय
सुधिया मदन्ती परिस्रुता तर्पयन्तः स्वपीठम् । नाकस्य पृष्ठे महतो वसन्ति
परं धाम त्रैपुरं चाविशन्ति ॥ ७ ॥ कामो योनिः कामकला वज्रपाणिर्गुहा-
हसा मातरिश्वाश्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमा-
तादिविद्या ॥ ८ ॥ षष्ठं सप्तममथं वह्निसारथिमस्या मूलत्रिकमादेशयन्तः ।
कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते ॥ ९ ॥ पुरं हन्त्री -
मुखं विश्वमातू रखे रेखा स्वरमध्यं तदेषा । बृहत्तिथिर्दश पञ्च च नित्या
सषोडशीकं पुरमध्यं बिभर्ति ॥ १० ॥ यद्वा मण्डलाद्वा स्तनबिम्बमेकं मुखं
चाधस्त्रीणि गुहासदनानि । कामी कलां कामरूपां चिकित्वा नरो जायते
कामरूपश्च कामः ॥ ११ ॥ परिस्रुतं झषमाजं फलं च भक्तानि योनी: सुप-
रिष्कृताश्च । निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति ॥ १२ ॥
सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् । इषुभिः पञ्चभि-
धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या ॥ १३ ॥ भगः शक्तिर्भगवा-
काम ईश उभा दाताराविह सौभगानाम् । समप्रधानौ समसत्त्वौ समोजौ
१ योनि नव. २ मन्त्रः प्रथते ३ सुधया.