This page has been fully proofread once and needs a second look.

<page>
<ignore>
देव्युपनिषत् ॥ ८४ ॥
 
</ignore>
<p>
नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् । तापाप-

हारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिव
दां
शिवाम् ॥ १० ॥ वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं

देव्या बीजं सर्वार्थसाधकम् ॥ ११ ॥ एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।

ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १२ ॥ वाङ्मया ब्रह्मभूस्तस्मा-

त्षष्ठं वक्त्रसमन्वितम् । सूर्यो चा<ref>१</ref>मश्रोत्रबिन्दुः संयुताष्टतृतीयकः ॥ १३ ॥

नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे नवार्णकोऽर्णः स्यान्महदान-

न्ददायकः ॥ १४ ॥ हृत्पुण्डरीकमध्यस्थां प्रातः सूर्यसमप्रभाम् । पाशाङ्कुश-

धरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे

॥ १५ ॥ नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशम
नीं
महाकारुण्यरूपिणीम् ॥ १६ ॥ यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मा-

दुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं

नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा ।
 

एकैव
सर्वत्र व र्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते
.

नैका । अत एवोच्यतेऽज्ञेयाऽनन्ताऽलक्ष्याऽजैका नैकेति । मन्त्राणां मातृका देवी

शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी

॥ १७ ॥ यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता <add>[ दुर्गात्संत्रायते

यस्माद्देवी दुर्गेति कथ्यते ॥ १८ ॥ प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥ ]
</add>
तां दुर्गागां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारा-

र्णवतारिणीम् ॥ १९ ॥ इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलम-

वामोप्नोति । इदमथर्वशीर्षं ज्ञात्वा योऽर्चाचां स्थापयति । शतलक्षं प्रजप्त्वापि

सोऽर्चासिद्धिं च विन्दति । शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥२०॥

दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसा-

दतः ॥ २१ ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो

दिवसकृतं पापं नाशयति । तत्सायंप्रातः प्रयुञ्जानः पापोsपापो भवति ।

निशीथे तुरीयसंध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनप्रतिमायां जप्त्वा

देवतासांनिध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति ।

भौमाश्विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति । य एवं वेदेत्युप-

निषत् ॥ २२ ॥ हरिः ॐ तत्सत् ॥
 
</p>
<trailer>
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
</trailer>
<trailer>
इति देव्युपनिषत्समाप्ता ॥ ८४ ॥
 
</trailer>
<footnote>
१ श्रोत्रबिन्दुः संयत्य.
 
</footnote>
</page>