2026-02-17 03:24:07 by ambuda-bot
This page has not been fully proofread.
देव्युपनिषत् ॥ ८४ ॥
नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् । तापाप-
हारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां विजयां शुद्धां शरण्यां शिवद
शिवाम् ॥ १० ॥ वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् । अर्धेन्दुलसितं
देव्या बीजं सर्वार्थसाधकम् ॥ ११ ॥ एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ १२ ॥ वाङ्मया ब्रह्मभूस्तस्मा-
त्षष्ठं वक्त्रसमन्वितम् । सूर्यो चामश्रोत्रबिन्दुः संयुताष्टतृतीयकः ॥ १३ ॥
नारायणेन संयुक्तो वायुश्चाधरसंयुतः । विच्चे नवार्णकोऽर्णः स्यान्महदान-
न्ददायकः ॥ १४ ॥ हृत्पुण्डरीकमध्यस्थां प्रातः सूर्यसमप्रभाम् । पाशाङ्कुश-
धरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे
॥ १५ ॥ नमामि त्वामहं देवीं महाभयविनाशिनीम् । महादुर्गप्रशमन
महाकारुण्यरूपिणीम् ॥ १६ ॥ यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मा-
दुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं
नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा ।
सर्वत्र व मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते
. नैका । अत एवोच्यतेऽज्ञेयाऽनन्ताऽलक्ष्याऽजैका नैकेति । मन्त्राणां मातृका देवी
शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी
॥ १७ ॥ यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता [ दुर्गात्संत्रायते
यस्माद्देवी दुर्गेति कथ्यते ॥ १८ ॥ प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ॥ ]
तां दुर्गा दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारा-
र्णवतारिणीम् ॥ १९ ॥ इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलम-
वामोति । इदमथर्वशीर्षं ज्ञात्वा योऽर्चा स्थापयति । शतलक्षं प्रजप्तवापि
सोऽर्चासिद्धिं च विन्दति । शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥२०॥
दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसा-
दतः ॥ २१ ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो
दिवसकृतं पापं नाशयति । तत्सायंप्रातः प्रयुञ्जानः पापोsपापो भवति ।
निशीथे तुरीयसंध्यायां जहवा वाक्सिद्धिर्भवति । नूतनप्रतिमायां जहवा
देवतासांनिध्यं भवति । प्राणप्रतिष्ठायां जहवा प्राणानां प्रतिष्ठा भवति ।
भौमाश्विन्यां महादेवीसंनिधौ जप्त्वा महामृत्युं तरति । य एवं वेदेत्युप-
निषत् ॥ २२ ॥ हरिः ॐ तत्सत् ॥
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
इति देव्युपनिषत्समाप्ता ॥ ८४ ॥
१ श्रोत्रबिन्दुः संयत्य.