This page has been fully proofread once and needs a second look.

<page>
<ignore>
५४२
 
</ignore>
<ignore>
ईशाद्युपनिषत्सु -
 
</ignore>
<title text="START">
देव्युपनिषत् ॥ ८४ ॥
</title>
<p>
श्रीदेव्युपनिषद्विद्या वेद्यापारसुखाकृति ।
 

त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥ १ ॥
</p>
<p>
ॐ भद्रं कर्णेभिरिति शान्तिः ॥
 
</p>
<p>
हरिः ॐ ॥ सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि । साब्रवीदहं

ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च अहमानन्दा-

नानन्दाः विज्ञानाविज्ञाने अहम् । ब्रह्मा ब्रह्मणी वेदितव्ये । इत्याहाथर्वणी

श्रुतिः। अहं पञ्च भूतान्यपञ्चभूतानि । अहम खिलं जगत् । वेदोऽहमवेदोऽहम् ।

विद्याहमविद्याहम् । अजाहमनजाहम्। अधश्चोर्ध्वं च तिर्यक्चाहम् । अहं रुद्रेभि-

र्व
सुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राभी
ग्नी
अहमश्विनावुभौ । अहं सोमं स्त्वष्टारं पूषणं भगं दधाम्यहम् ॥ १ ॥ विष्णुमुरुक्रमं

ब्रह्माणमुत प्रजापतिं दधामि । अहं दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमा-

नाय सुन्वते ॥ २ ॥ अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन्मम

योनिरप्स्वन्तः समुद्रे । एवं वेद स देवीपदमाप्नोति । ते देवा अब्रुवन् ।

नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः

प्रणताः स्म ताम् ॥ ३ ॥ तामद्मिग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु

जुष्टाम् । दुर्गागां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः ॥ ४ ॥ देवीं

वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्
जं
दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ ५ ॥ कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्द-

मातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ६ ॥ महा-

लक्ष्मीश्च विद्महे सर्वसिद्धिश्व धीमहि । तन्नो देवी प्रचोदयात् ॥ ७ ॥ अदि-

तिर्ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृतबन्धवः

॥ ८ ॥ कामो योनिः कामकला वज्रपाणिर्गुहा हसा । मातरिश्वाश्भ्रमिन्द्रः

पुनर्गुहा सकला मायया च पुनः कोशा विश्वमाता दिवि द्योम् ॥ ९ ॥ एषा-

ऽऽत्मशक्तिः । एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ।

य एवं वेद स शोकं तरति । नमस्ते अस्तु भ<ref>१</ref>गवति भवती मातरस्मान्पातु

सर्वतः । सैषाऽष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा

विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाच-

यक्षाः सिद्धाः। सैषा सत्त्वरजस्तमांसि । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहा
</p>
<footnote>
- भवति.
 
</footnote>
</page>