2026-02-17 03:23:50 by ambuda-bot
This page has not been fully proofread.
अध्या० १]
संन्यासोपनिष ॥ ६८ ॥
संन्यासोपनिषत् ॥ ६८ ॥
संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम् ।
सत्तासामान्यविभवं स्वमात्रमिति भावये ॥ १ ॥
ॐ आप्यायन्त्विति शान्तिः ॥
४७५
हरिः ॐ अथातः संन्यासोपनिषदं व्याख्यास्यामः । योऽनुक्रमेण संन्यस्यति
स संन्यस्तो भवति । कोऽयं संन्यास उच्यते कथं वा संन्यस्तो भवति । य
आत्मानं क्रियाभिर्गुतं करोति मातरं पितरं भार्यां पुत्रान्बन्धूननुमोदयित्वा
ये चास्यर्त्विजस्तान्सर्वांश्च पूर्ववत्प्राणित्वा वैश्वानरेष्टिं निर्वपेत्सर्वस्वं दद्याद्यज-
मानस्य गा ऋत्विजः सर्वैः पात्रैः समारोप्य यदाहवनीये गार्हपत्ये वाऽन्वाहा-
पचने सभ्यावसथ्ययोश्च प्राणापानव्यानोदानसमानान्सर्वान्सर्वेषु समारोप-
येत् । सशिखान्केशान्विसृज्य यज्ञोपवीतं छित्त्वा पुत्रं दृष्ट्वा त्वं यज्ञस्त्वं सर्व-
मित्यनुमन्त्रयेत् । यद्यपुत्रो भवत्यात्मानमेवेमं ध्यात्वाऽनवेक्षमाणः प्राची-
मुदीचीं वा दिशं प्रव्रजेच्च । त्रिषु वर्णेषु भिक्षाचर्यं चरेत् । पाणिपात्रेणाशनं
कुर्यात् । औषधवदशनमाचरेत् । औषधवदशनं प्राश्नीयात् । यथालाभमनी-
यात्प्राणसंधारणार्थं यथा मेदोवृद्धिर्न जायते । कृशो भूत्वा ग्राम एक रात्रं
नगरे पञ्चरात्रं चतुरो मासान्वार्षिकान्ग्रामे वा नगरे वापि वसेत् । पक्षा वै
मास इति द्वौ मासौ वा वसेत् । विशीर्णवस्त्रं वल्कलं वा प्रतिगृह्णीयान्ना-
न्यत्प्रतिगृह्णीयाद्यद्यशक्तो भवति क्लेशतस्तप्यते तप इति । यो वा एवं क्रमेण
संन्यस्यति यो वा एवं पश्यति किमस्य यज्ञोपवीतं काऽस्य शिखा कथं वाऽस्यो-
पस्पर्शनमिति । तं होवाचेदमेवास्य तद्यज्ञोपवीतं यदात्मध्यानं विद्या शिखा
नीरे: " सर्वत्रावस्थितैः कार्यं निर्वर्तयन्नुदरपात्रेण जलतीरे निकेतनम् । ब्रह्म-
वादिनो वदन्त्यस्तमित आदित्ये कथं वाऽस्योपस्पर्शनमिति । ताम्होवाच
यथाऽहनि तथा रात्रौ नास्य नक्तं न दिवा तदप्येतदृषिणोक्तम् । संकृद्दिवा
हैवास्मै भवति य एवं विद्वानेतेनात्मानं संधत्ते ॥ १ ॥
1
इति संन्यासोपनिषत्सु प्रथमोऽध्यायः ॥ १ ॥
ॐ चत्वारिंशत्संस्कारसंपन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेयहं -
कारं दग्ध्वा साधनचतुष्टयसंपन्न एव संन्यस्तुमर्हति । संन्यासे निश्चयं कृत्वा
१ पूर्ववद्धत्वा २ चर्तुर्षु. ३ विद्यात्सा शिखा. ४ निर्वैरः . ५ सकृदिवा.