2026-02-17 03:42:41 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore lang="sa">अनु० ३]</ignore>
<ignore lang="sa">तैत्तिरीयोपनिषत् ॥ ७ ॥</ignore>
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भङ्गं पश्येमाक्षभिर्यजत्राः ॥ स्थिरै-
रङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्ध-
श्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति
नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
<trailer text="END" lang="sa">इति माण्डूक्योपनिषत्समाप्ता ॥ ६ ॥</trailer>
<subtitle lang="sa">॥ ॐ तत्सत् ॥</subtitle>
<heading>॥ शीक्षाध्यायः ॥</heading>
ॐ शं नो मित्रः शं वरुणः ॥ शं नो भवत्वर्यमा । शं न इन्द्रो बृह-
स्पतिः ॥ शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥ नमस्ते वायो ॥ त्वमेव
प्रत्यक्षं ब्रह्मासि ॥ त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ॥ ऋतं वदिष्यामि ॥ सत्यं
वदिष्यामि ॥ तन्मामवतु ॥ तद्वक्तारमवतु ॥ अवतु माम् । अवतु वक्तारम् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ शं नो मित्रः शं वरुणः ॥ शं नो भवत्वर्यमा ॥ शं न इन्द्रो बृहस्पतिः ॥
शं नो विष्णुरुरुक्रमः ॥ नमो ब्रह्मणे ॥ नमस्ते वायो ॥ त्वमेव प्रत्यक्षं ब्रह्मासि ॥
त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ॥ ऋतं वदिष्यामि ॥ सत्यं वदिष्यामि ॥ तन्मा-
मवतु ॥ तद्वक्तारमवतु ॥ अवतु माम् ॥ अवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः
शान्तिः ॥ १ ॥ सत्यं वदिष्यामि पञ्च च ॥ १ ॥
<trailer lang="sa">इति शीक्षाध्याये प्रथमोऽनुवाकः ॥ १ ॥</trailer>
ॐ शीक्षां व्याख्यास्यामः ॥ वर्णः स्वरः ॥ मात्रा बलम् ॥ साम संतानः ॥
इत्युक्तः शीक्षाध्यायः ॥ १ ॥ ( शीक्षां पञ्च ) ॥
<trailer lang="sa">इति शीक्षाध्याये द्वितीयोऽनुवाकः ॥ २ ॥</trailer>
सह नौ यशः ॥ सह नौ ब्रह्मवर्चसम् ॥ अथातः सꣳहिताया उपनिषदं
व्याख्यास्यामः ॥ पञ्चस्वधिकरणेषु ॥ अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज-
मध्यात्मम् ॥ ता महासꣳहिता इत्याचक्षते । अथाधिलोकम् ॥ पृथिवी पूर्वरूपम् ॥
द्यौरुत्तररूपम् ॥ आकाशः संधिः ॥ १ ॥ वायुः संधानम् ॥ इत्यधिलोकम् ॥ अथा-
धिज्यौतिषम् ॥ अग्निः पूर्वरूपम् ॥ आदित्य उत्तररूपम् ॥ आपः संधिः ॥ वैद्युतः
संधानम् ॥ इत्यधिज्यौतिषम् ॥ aथाधिचिद्यम् ॥ आचार्यः पूर्वरूपम् ॥ २ ॥
aन्तेवास्युत्तररूपम् ॥ विद्या संधिः ॥ प्रवचनꣳ संधानम् ॥ इत्यधिविद्यम् ॥
अथाधिप्रजम् ॥ माता पूर्वरूपम् ॥ पितोत्तररूपम् ॥ प्रजा संधिः ॥ प्रजननꣳ
</page>