Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>38.</ignore>
<ignore>ईशाद्युपनिषत्सु -</ignore>
<p>पितर ईशते प्रतिबुद्धः सर्वविदिति । हृदिस्था देवताः सर्वा हृदि प्राणाः
प्रतिष्ठिताः । हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् । हृदि चैतन्ये
तिष्ठति । यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं
प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः । सशिखं वपनं कृत्वा बहिःसूत्रं
त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् । सूचनात्सूत्रमित्याहुः सूत्रं
नाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः । येन सर्वमिदं प्रोतं
सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्वदर्शिवान् । बहिःसूत्रं
त्यजेद्विद्वान्योगमुत्तममास्थितः । ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ।
धारणात्तस्य सूत्रस्य नोच्छिष्टो नाशुचिर्भवेत् ॥<break type="verse"/> सूत्रमन्तर्गतं येषां ज्ञानयज्ञो-
पवीतिनाम् । ते वै सूत्रविदो लोके ते च यज्ञोपवीतिनः ॥<break type="verse"/> ज्ञानशिखिनो
ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । ज्ञानमेव परं तेषां पवित्रं ज्ञानमुच्यते ॥<break type="verse"/>
अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वानितरे
केशधारिणः ॥<break type="verse"/> कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तैः संधार्यमिदं सूत्रं
क्रिया तद्धि वै स्मृतम् ॥<break type="verse"/> शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥<break type="verse"/> इदं यज्ञोपवीतं तु पवित्रं यत्पर-
यणम् । स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥<break type="verse"/> एको देवः सर्व-
भूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी
चेता केवलो निर्गुणश्च ॥<break type="verse"/> एको मनीषी निष्क्रियाणां बहूनामेकं रूपं बहुधा यः
करोति । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शांतिः शाश्वती नेतरेषाम् ॥<break type="verse"/>
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्नि-
गूढवत् ॥<break type="verse"/> तिलेषु तैलं दधनीव सर्पिरापः स्त्रोतःस्त्ररणीषु चाग्निः । एव-
मात्मात्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥<break type="verse"/> ऊर्णनाभिर्यथा तन्तू-
न्सृजते संहरत्यपि । जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥<break type="verse"/> पद्मकोश-
प्रतीकाशं सुषिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥<break type="verse"/>
नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं विनिर्दिशेत् । सुषुसं हृदयस्थं तु तुरीयं मूर्ध्नि
संस्थितम् ॥<break type="verse"/> यदात्मा प्रज्ञयात्मानं संधत्ते परमात्मनि । तेन संध्या ध्यानमेव
तस्मात्संध्याभिवन्दनम् । निरोदका ध्यानसंध्या वाक्कायक्लेशवर्जिता । संधिनी
सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥<break type="verse"/> यतो वाचो निवर्तन्ते अप्राप्य
मनसा सह । आनन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ॥<break type="verse"/> सर्वव्यापिनमा-
त्मानं क्षीरे सर्पिरिवार्पितम् । आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् । सर्वा-
त्मैकत्वरूपेण तद्ब्रह्मोपनिषत्परमिति ॥<break type="verse"/> सह नाववत्विति शान्तिः ॥</p>
<trailer>इति ब्रह्मोपनिषत्समाप्ता ॥</trailer>
</page>