2026-02-17 03:22:08 by ambuda-bot
This page has not been fully proofread.
ब्रह्मोपनिषत् ॥ २१ ॥
ब्रह्मोपनिषत् ॥ २१ ॥
ब्रह्मकैवल्यजाबालः श्वेताश्वो हंस आरुणिः ।
गर्भो नारायणो हंसो बिन्दुनादशिरः शिखा ॥ १ ॥
ॐ सह नाववत्विति शान्तिः ॥
१६७
ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छत् ।
दिव्ये ब्रह्मपुरे संप्रतिष्ठिता भवन्ति, कथं सृजन्ति, कस्यैष महिमा बभूव यो
ह्येष महिमा बभूव क एषः । तस्मै स होवाच ब्रह्मविद्यां वरिष्ठाम् । प्राणो ह्येष
आत्मा, आत्मनो महिमा बभूव । देवानामायुः, स देवानां निधनमनिधनं दिव्ये
ब्रह्मपुरे चिरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति, मधुकरराजानं
माक्षिकवत् । यथा माक्षीकैकेन तन्तुना जालं विक्षिपति तेनापकर्षति तथैवैष
प्राणो यदा याति संसृष्टमाकृष्य । प्राणदेवतास्ताः सर्वा नाड्यः सुष्वपे श्येना-
काशवद्यथा खं श्येनमाश्रित्य याति स्वमालयमेवं सुषुप्तो ब्रूते । यथैवैष देव-.
दत्तो यष्ट्यापि ताड्यमानो न यत्येवमिष्टापूर्तेः शुभाशुभैर्न लिप्यते । यथा
कुमारो निष्काम आनन्दमुपयाति तथैवैष देवदत्तः स्वम आनन्दमभियाति ।
वेद एव परं ज्योतिः । ज्योतिष्कामो ज्योतिरानन्दयते भूयस्तेनैव स्वम (य
गच्छति जलौकावत् । यथा जलौकाऽग्रममं नयत्यात्मानं नयति परं संघय ।
यत्परं नापरं त्यजति स जाग्रदुभिधीयते । यथैवैष कपालाष्टकं संनयति,
तमेव स्तन इव लम्बते वेददेवयोनिः । यत्र जाप्रति शुभाशुभं निरुक्तमस्य
देवस्य स संप्रसारोऽन्तर्यामी खगः कर्कटकः पुष्करः पुरुषः प्राणो हिंसा परा-
परं ब्रह्म, आत्मा देवता वेदयति । य एवं वेद स परं ब्रह्म धाम क्षेत्रज्ञमुपैति ।
अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति । नाभिर्हृदयं कण्ठं मूर्धेति ।
तत्र चतुष्पादं ब्रह्म विभाति । जागरितं स्वमं सुषुप्तं तुरीयमिति । जागरिते
ब्रह्मा स्वमे विष्णुः सुषुप्तौ रुद्रस्तुरीयं परमाक्षरम् । स आदित्यश्च विष्णुश्वेश्वरश्चं
स पुरुषः स प्राणः स जीवः सोऽभिः सेश्वरश्च जाग्रत्तेषां मध्ये यत्परं ब्रह्म
विभाति । स्वयममनस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितम् । न तत्र लोका
नलोका वेदा नवेदा देवा नदेवा यज्ञा नयज्ञा माता नमाता पिता नपिता
खुषा नखुषा चाण्डालो नचाण्डालः पौल्कसो नपौल्कसः श्रमणो नश्रमणः
पशवो नपशवस्तापसो नतापस इत्येकमेव परं ब्रह्म विभाति । हृद्याकाशे
तद्विज्ञानमाकाशं तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं संचरति विच-
रति यस्मिन्निदं सर्वमोतं प्रोतं सं विभोः प्रजा ज्ञायेरन् । न तत्र देवा ऋषयः