This page has not been fully proofread.

खण्डः ७].
 
महानारायणोपनिषत् ॥ १९ ॥
 
१५५
 
संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥ ६ ॥ सूर्या-
चन्द्रमसौधाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वः
॥ ७ ॥ यत्पृथिव्या रजः स्वमान्तरिक्षे विरोदसी । इमास्तदापो वरुणः पुना-
स्वत्रमर्षणः ॥ ८ ॥ एष सर्वस्य भूतस्य भव्ये भुवनस्य गोप्ता । एष पुण्यकृत
prartष मृत्यो हिरण्मयः । द्यावापृथिव्योर्हिरण्मयं संशृतं सुवः । स नः
सुवः संशिशाधि ॥ ९ ॥ आर्द्र ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्मा-
हमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥ १० ॥
अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा गुरुतल्पगः । वरुणोऽपामघमर्षणस्तस्मात्पापा-
मुच्यते ॥ ११ ॥ रजो भूमिस्त्वमाँरोदयस्त्र प्रवदन्ति धीराः । पुनन्तु ऋषयः
पुनन्तु वसवः पुनातु वरुणः पुनात्वघमर्षणः ॥ १२ ॥
 
इति श्रीमहानारायणोपनिषदि पञ्चमः खण्डः ॥ ५ ॥
 
भान्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य राजा । वृषा पवित्रे
अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥ १ ॥ जातवेदसे सुनवाम
सोममरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं
दुरितात्यनिः ॥ २ ॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचन कर्मफलेषु
जुष्टाम् । दुर्गा देवीं शरणमहं प्रपद्ये सुतरसितरसे नमः ॥ ३ ॥ अग्ने स्वं पारया
नव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा
तोकाय तनयाय शंयोः ॥ ४ ॥ विश्वानि नो दुर्गहा जातवेदः सिन्धुर्न नावा
दुरितातिपर्षि । अग्ने अनिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥ ५ ॥
पृतनाजितं सहमानमग्निमुत्रं हुवेम परमात्सधस्थात् । स नः पर्षदतिदुर्गाणि
विश्वा क्षामदेवो अतिदुरितात्यनिः ॥ ६ ॥ प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च
होता नव्यश्च सत्सि । स्वाँ चाग्ने तन्त्रं पिप्रयस्वास्मभ्यं च सौभगमायजस्व
॥ ७ ॥ परस्ताद्यशो गुहासु मम सुपर्णपक्षाय धीमहि । शतबाहुना पुनरजायत
सुवो राजा सधस्था त्रीणि च ॥ ८ ॥
 
इति श्रीमहानारायणोपनिषदि षष्ठः खण्डः ॥ ६॥
 
ॐ भूरग्नये पृथिव्यै स्वाहा । भुवो वायवेऽन्तरिक्षाय स्वाहा । सुवरारादित्या-
य दिवे स्वाहा । भूर्भुवः सुवश्चन्द्रमसे दिग्भ्यः स्वाहा । नमो देवेभ्यः स्वधा
पितृभ्यो भूर्भुवः सुवरनिरोम् ॥ १ ॥ भूरन्नमग्नये पृथिव्यै स्वाहा । भुवोऽन्नं
वायवेऽन्तरिक्षाय स्वाहा । सुवरन्नमादित्याय दिवे स्वाहा । भूर्भुवः सुवरन्नं च-
न्द्रमसे दिग्भ्यः स्वाहा । नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवरनमोम्