2026-05-10 22:34:29 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>ईशाधुपनिषद-
[ खण्डः २
</ignore>
वायुरनिलममृतमथेदं भस्मान्तरꣳ शरीरम् ॥ ॐ क्रमो स्मर कृतःतꣳ स्मर ऋतो
स्मर कृत ँꣳ स्मर ॥ १७ ॥ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयु-
नानि विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ -
ॐ शान्तिः शान्तिः शान्तिः ॥
<trailer text="1_END">इति वाजसनेयसंहितायामीशावास्योपनिषत्संपूर्णा ॥ १ ॥
'</trailer>
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि
च । सर्वाणि सर्ववं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यायां मा मा ब्रह्म निराकरोद-
निराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
<metadata>div.n = 1</metadata>
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्ररैति युक्तः ॥ केनेषितां
वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥<break/> श्रोत्रस्य श्रोत्रं
मनसो मनो यद्वाचो ह वाचꣳ स उ प्राणस्य प्राणः ॥ चक्षुषश्चक्षुरतिमुच्य
धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥<break/> न तत्र चक्षुर्गच्छति न वाग्गा-
च्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदिता-
दथो अविदितादधि ॥ इति शुश्रुम पूर्वेषां ये नस्तव्याचचक्षिरे ॥ ३ ॥
<break/>
यद्वाचानभ्युदितं येन वागभ्युद्यते ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपा-
सते ॥ ४ ॥<break/> यन्मनसा न मनुते येनाहुर्मनो मतम् ॥ तदेव ब्रह्म त्वं विद्धि
नेदं यदिदमुपासते ॥ ५ ॥<break/> यच्चक्षुषा न पश्यति येन चक्षू ँꣳषि पश्यति ॥
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥<break/> यच्छ्रोत्रेण न शृणोति येन
श्रोत्रमिद ँꣳ श्रुतम् ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७ ॥<break/> यत्प्राणेन
न प्राणिति येन प्राणः प्रणीयते ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८ ॥
<trailer>इति केनोपनिषत्सु प्रथमः खण्डः ॥ १ ॥
</trailer>
<metadata>div.n = 2</metadata>
यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ॥ यदस्य त्वं
यदस्य च देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ ९ ॥ १ ॥<break/> नाहं
मन्ये सुवेदेति नो न वेदेति वेद च ॥ यो नस्तद्वेद तद्वेद नो न वेदेति वेद
च ॥ १० ॥ २ ॥<break/> यस्यामतं तस्य मतं मतं यस्य न वेद सः ॥ अविज्ञातं
<footnote>१ सामवेदीयतलवकारोपनिषदित्यस्या अपरमभिधेयमिति केचित् ।
</footnote>
</page>
<ignore>ईशाधुपनिषद-
वायुरनिलममृतमथेदं भस्मान्त
स्मर कृत
नानि विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
<trailer text="1_END">इति वाजसनेयसंहितायामीशावास्योपनिषत्संपूर्णा ॥ १ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि
च । सर्वाणि सर्
निराकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
<metadata>div.n = 1</metadata>
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्
वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १ ॥<break/> श्रोत्रस्य श्रोत्रं
मनसो मनो यद्वाचो ह वाचꣳ स उ प्राणस्य प्राणः ॥ चक्षुषश्चक्षुरतिमुच्य
धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २ ॥<break/> न तत्र चक्षुर्गच्छति न वाग्गा-
च्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यादन्यदेव तद्विदिता-
दथो अविदितादधि ॥ इति शुश्रुम पूर्वेषां ये नस्तव्याचचक्षिरे ॥ ३ ॥
यद्वाचानभ्युदितं येन वागभ्युद्यते ॥ तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपा-
सते ॥ ४ ॥<break/> यन्मनसा न मनुते येनाहुर्मनो मतम् ॥ तदेव ब्रह्म त्वं विद्धि
नेदं यदिदमुपासते ॥ ५ ॥<break/> यच्चक्षुषा न पश्यति येन चक्षू
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६ ॥<break/> यच्छ्रोत्रेण न शृणोति येन
श्रोत्रमिद