This page has been fully proofread once and needs a second look.

<page>
<ignore>
१५४
 
</ignore>
<ignore>
ईशाgपनिषत्सु -
 

[ खण्डः ५
 

१५ ॥
 
</ignore>
<p>
तत्पुरुषाय विद्महे सुपर्णपक्षाय धीमहि । तन्नो गरुडः प्रचोदयात् ॥
१५ ॥<break/>
नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥
१६ ॥<break/>
नृसिंहाय विद्महे वज्रनखाय धीमहि । तन्नः सिंहः प्रचोदयात् ॥
१७ ॥<break/>
चतुर्मुखाय विद्महे कमण्डलुधराय धीमहि । तन्नो ब्रह्मा प्रचोदयात् ॥
१८ ॥<break/></p>
<trailer>
इति श्रीमहानारायणोपनिषदि तृतीयः खण्डः ॥ ३॥
 
१६ ॥
 
१७ ॥
 
१८ ॥
 
</trailer>
<metadata>div.n = 4</metadata>
<p>
सहस्रपरमा देवी शतमूला शतांकुरा । सर्वं हरतु मे पापं दूर्वा दुःखप्नना-

शिनी ॥ १ ॥<break/> दूर्वा अमृतसम्भूताः शतमूलाः शतांकुराः । शतं मे घ्नन्ति

पापानि शतमा युर्विवर्धति ॥ २ ॥<break/> काण्डारकाण्डात्प्ररोहन्ती परुषः परुषः परि ।

एवा नो दुदूर्वे प्रतनु सहस्त्रेण शतेन च ॥ ३ ॥<break/> अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते

वसुन्धरे । शिरसा धारिता देवि रक्षस्व मां पदे पदे ॥ ४ ॥<break/> उद्धृतासि वराहेण

कृष्णेन शतबाहुना । भूमिर्धेनुर्धरित्री च धरणी लोकधारिणी । तेन या

ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता ॥ ५ ॥<break/> मृत्तिके हर मे पापं यन्मया दुष्कृतं

कृतम् । त्वया हतेन पापेन जीवामि शरदः शतम् ॥ ६ ॥<break/> वाचा कृतं कर्मकृतं

मनसा दुर्विचिन्तितम् । वया हतेन पापेन गच्छामि परमां गतिम् । मृत्तिके

देहि मे पुष्टिटिं व सर्वं प्रतिष्ठितम् ॥ ७ ॥<break/> गन्धद्वारां दुराधर्षां नित्यपुष्टां

करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥ ८ ॥<break/> ॐ भूर्लक्ष्मी-

र्भुवर्लक्ष्मीः सुवः कालकर्णी तन्नो महालक्ष्मीः प्रचोदयात् ॥ ९ ॥<break/> पद्मप्रभे

पद्मसुन्दरि धर्मरतये स्वाहा ॥ १० ॥<break/> हिरण्यशृंगं वरुणं प्रपद्ये तीर्थं मे देहि

याचितः । यन्मया भुक्तमसाधूनां पापेभ्यश्च प्रतिग्रहः ॥ ११ ॥<break/> यन्मे मनसा

वाचा कर्मणा वा दुष्कृतं कृतम् । तन्मे इन्द्रो वरुणो बृहस्पतिः सविता च

पुनन्तु पुनः पुनः ॥ १२ ॥<break/> सुमित्रिया न आप ओषधयः सन्तु दुर्मित्रियास्तस्मै

भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ १३ ॥
 
</p>
<trailer>
इति श्रीमहानारायणोपनिषदि चतुर्थः खण्डः ॥ ४ ॥
 
</trailer>
<metadata>div.n = 5</metadata>
<p merge-next="true">
नमोsऽग्नयेऽसुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः ॥ य-

पां क्रूरं यदमेध्यं यदशान्तं तदुपगच्छतात् ॥ १ ॥<break/> अत्याशनादतीपानाद्यष्व
च्च
उग्रात्प्रतिग्रहात् । तन्मे वरुणो राजा पाणिना ह्यवमर्शतु ॥ २ ॥<break/> सोऽहमपापो

विरजो निर्मुक्तो मुक्तिकिल्बिषः । नाकस्य पृष्ठमारुह्य गच्छेद्ब्रह्म सलोकताम् ॥ ३ ॥
<break/>
इमं मे गंगे यमुने सरस्वति शुतुद्विरि स्तोमं सचता परुष्ण्या । असिक्न्या मरुद्वृधे

वितस्तयाजकीये शृणुह्या सुषोमया ॥ ४ ॥<break/> ऋतं च सत्यं चाभीद्धात्तपसोऽ-

ध्यजायत । ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥ ५ ॥<break/> समुद्रादर्णवादधि
 
</p>
</page>