This page has not been fully proofread.

खण्ड: ३]
 
महानारायणोपनिषत् ॥ १९ ॥
 
३५३
 
एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । सं
विजायमानः स जनिष्यमाणः प्रत्यङ्मुखस्तिष्ठति सर्वतोमुखः ॥
॥ विश्व-
तश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं
पतत्रैर्द्यावापृथिवी जनयन्देव एकः ॥ २ ॥ वेनस्तत्पश्यन्विश्वा भुवनानि विद्वान्
यत्र विश्वं भवत्येकनीडम् । यस्मिन्निदं सं च वि चैकं स ओतः प्रोतश्च विभुः
प्रजासु ॥ ३ ॥ प्र तोचे अमृतं नु विद्वान् गन्धर्वो नाम निहितं गुहासु
श्रीणि पदा निहिता गुहासु यस्तद्वेद स पितुः पितासत् ॥ ४ ॥ स नो बन्धु-
निता स विधाता धामानि वेद भुवनानि विश्वा । यत्र देवा अमृतत्वमान-
शानास्तृतीये धामान्यभ्यैरयन्त ॥ ५ ॥ परि द्यावापृथिवी यन्ति सद्यः परि
लोकान्परि दिशः परि सुवः । ऋतस्य तन्तुं विततं विवृत्य तदपश्यत्तदभवत्त-
प्रजासु ॥ ६ ॥ परीत्य लोकान्परीत्य भूतानि परीत्य सर्वाः प्रदिशो दिशश्च ।
● प्रजापतिः प्रथमजा ऋतस्यात्मनात्मानमभिसम्बभूव ॥ ७ ॥ सदसस्पतिमद्भुतं
प्रियमिन्द्रस्य काम्यम् । सनिं मेघामयासिषम् ॥ ८ ॥ उद्दीप्यस्व जातवेदोs -
पद्मन्नितिं मम । पशूंश्च मह्यमावह जीवनं च दिशो दिशः ॥ ९ ॥ मा नो
हिंसीजातवेदो गामश्वं पुरुषं जगत् । अविनदन आगहि श्रिया मा परि-
पतिय ॥ १० ॥
 
इति श्रीमहानारायणोपनिषदि द्वितीयः खण्डः ॥ २ ॥
 
तत्पुरुषस्य विद्महे सहस्राक्षस्य महादेवस्य धीमहि । तन्नो रुद्रः प्रचोदयात्
॥ १ ॥ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ २ ॥
तत्पुरुषाय विद्महे नन्दिकेश्वराय धीमहि । तन्नो वृषभः प्रचोदयात् ॥ ३ ॥
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥ ४ ॥
षण्मुखाय विद्महे महासेनाय धीमहि । तन्नः षष्ठः प्रचोदयात् ॥ ५ ॥
पावकाय विद्महे सप्तजिह्वाय धीमहि । तन्नो वैश्वानरः प्रचोदयात् ॥ ६ ॥
वैश्वानराय विद्महे लालेलाय धीमहि । तनो अग्निः प्रचोदयात् ॥ ७ ॥
भास्कराय विद्महे दिवाकराय धीमहि । तन्नः सूर्यः प्रचोदयात् ॥ ८ ॥ दिवा-
कराय विद्महे महाद्युतिकराय धीमहि । तन्न आदित्यः प्रचोदयात् ॥ ९ ॥
आदित्याय विद्महे सहस्रकिरणाय धीमहि । तन्नो भानुः प्रचोदयात् ॥
तीक्ष्ण शृंगाय विद्महे वक्रपादाय धीमहि । तन्नो वृषभः प्रचोदयात् ॥
कात्यायन्यै विद्महे कन्याकुमार्यै धीमहि । तन्नो दुर्गा प्रचोदयात् ॥
महाशूलिन्यै विद्महे महादुर्गायै धीमहि । तन्नो भगवती प्रचोदयात्
सुभगायै विद्महे काममालिन्यै धीमहि । तन्नो गौरी प्रचोदयात् ॥
 
१० ॥
 
११ ॥
 
१२ ॥
 

 
१३ ॥
 
१४ ॥