This page has been fully proofread once and needs a second look.

<page>
<ignore>१५२</ignore>
<ignore>ईशाद्युपनिषत्सु -
[ खण्ड: १</ignore>
<p>ब्रह्मण्यो मधुसूदनः ॥ ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युत इति ॥ सर्व-
भूतस्थमेकं वै नारायणं कारणपुरुषमकारणं परं ब्रह्म ओम् ॥ एतदथर्वशिरो
योऽधीते ॥ ४ ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानो
दिवसकृतं पापं नाशयति ॥ तत्सायंप्रातरधीयानोऽपापो भवति ॥ मध्यंदिन-
मादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते ॥ सर्ववेदपारा-
यणपुण्यं लभते ॥ नारायणसायुज्यमवाप्नोति ॥ श्रीमन्नारायणसायुज्यमवा-
प्नोति य एवं वेद ॥ ५ ॥</p>
<trailer>ॐ स<error> </error>ह नाववत्विति शान्तिः ॥</trailer>
<trailer text="END">॥ इति नारायणाथर्वशिरउपनिषत्समाप्ता ॥ १८ ॥</trailer>
<title text="START">महानारायणोपनिषत् ॥ १९॥</title>
<metadata>div.n = 1</metadata>
<p>ॐ नमो महते नारायणाय ॥ अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे
महतो महीयान् । शुक्रेण ज्योतींषि समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः
॥ १ ॥<break/> यस्मिन्निदं सं च वि चैति सर्वं यस्मिन्देवा अधि विश्वे निषेदुः ।
तदेव भूतं तदु भव्यमानमिदं तदक्षरे परमे व्योमन् ॥ २ ॥<break/> येनावृतं खं च
दिवं मही च येनादित्यस्तपति तेजसा भ्राजसा च । यदन्तः समुद्रे कवयो
वदन्ति तदक्षरे परमे प्रजाः ॥ ३ ॥<break/> यतः प्रसूता जगतः प्रसूती तोयेन जीवा-
न्विससर्ज भूम्याम् । यत ओषधीभिः पुरुषान्पशूंश्च विवेश भूतानि चराचराणि
॥ ४ ॥<break/> अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम् । यदेकम-
व्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥ ५ ॥<break/> तदेवर्तं तदु सत्यमाहुस्त-
देव ब्रह्म परमं कवीनाम् । इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति
भुवनस्य नाभिः ॥ ६ ॥<break/> तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्र-
ममृतं तद्ब्रह्म तदापः स प्रजापतिः ॥ ७ ॥<break/> सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा-
दधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः ॥ ८ ॥<break/> अर्धमासा मासा
ऋतवः संवत्सरश्च कल्पताम् । स आपः प्रदुधे उभे इमे अन्तरिक्षमथो सुवः
॥ ९ ॥<break/> नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्येशे कश्चन तस्य
नाम महद्यशः ॥ १० ॥<break/> न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च-
नैनम् । हृदा मनीषा मनसाभिकॢप्तो य एनं विदुरमृतास्ते भवन्ति ॥ ११ ॥<break/>
अद्भ्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ ॥ १२ ॥</p>
<trailer>इति श्रीमहानारायणोपनिषदि प्रथमः खण्डः ॥ १ ॥</trailer>
</page>