This page has not been fully proofread.

१५२
 
ईशाद्युपनिषत्सु -
 
[ खण्ड: १
ब्रह्मण्यो मधुसूदनः ॥ ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युत इति ॥ सर्व-
भूतस्थमेकं वै नारायणं कारणपुरुषमकारणं परं ब्रह्म ओम् ॥ एतदथर्वशिरो
योऽधीते ॥ ४ ॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानो
दिवसकृतं पापं नाशयति ॥ तत्सायंप्रातरधीयानोऽपापो भवति ॥ मध्यंदिन-
मादित्याभिमुखोऽधीयानः पञ्चमहापातको पपातकात्प्रमुच्यते ॥ सर्ववेदपारा-
यणपुण्यं लभते ॥ नारायणसायुज्यमवाप्नोति ॥ श्रीमन्नारायणसायुज्यमत्रा-
मोति य एवं वेद ॥ ५ ॥
 
ॐ स ह नाववत्विति शान्तिः ॥
 
॥ इति नारायणाथर्वशिर उपनिषत्समाप्ता ॥ १८ ॥
 
महानारायणोपनिषत् ॥ १९॥
 
ॐ नमो महते नारायणाय ॥ अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे
महतो महीयान् । शुक्रेण ज्योतींषि समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः
॥ १ ॥ यस्मिन्निदं सं च वि चैति सर्वं यस्मिन्देवा अधि विश्वे निषेदुः ।
तदेव भूतं तदु भव्यमानमिदं तदक्षरे परमे व्योमन् ॥ २ ॥ येनावृतं खं च
दिवं मही च येनादित्यस्तपति तेजसा भ्राजसा च । यदन्तः समुद्रे कवयो
वदन्ति तदक्षरे परमे प्रजाः ॥ ३ ॥ यतः प्रसूता जगतः प्रसूती तोयेन जीवा-
विससर्ज भूम्याम् । यत ओषधीभिः पुरुषान्पशूंश्च विवेश भूतानि चराचराणि
॥ ४ ॥ अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम् । यदेकम-
व्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥ ५ ॥ तदेवतं तदु सत्यमाहुस्त-
देव ब्रह्म परमं कवीनाम् । इष्टापूर्त बहुधा जातं जायमानं विश्वं बिभर्ति
भुवनस्य नाभिः ॥ ६ ॥ तदेवाभिस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्र-
ममृतं तद्ब्रह्म तदापः स प्रजापतिः ॥ ७ ॥ सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा-
दुधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः ॥ ८ ॥ अर्धमासा मासा
ऋतवः संवत्सरश्च कल्पताम् । स आपः प्रदुधे उभे इमे अन्तरिक्षमथो सुवः
॥ ९ ॥ नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्येशे कश्चन तस्य
नाम महद्यशः ॥ १० ॥ न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्च
नैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति ॥ ११ ॥
अच्यः सम्भूतो हिरण्यगर्भ इत्यष्टौ ॥ १२ ॥
 
इति श्रीमहानारायणोपनिषदि प्रथमः खण्डः ॥ १ ॥