This page has been fully proofread once and needs a second look.

<page>
<ignore>नारायणाथर्वशिर उपनिषत् ॥ १८ ॥</ignore>
<ignore>१५१</ignore>
<verse>कफस्याढकं शुक्लं कुडवं मेदः प्रस्थौ द्वावनियतं मूत्रपुरीषमाहारपरिमाणात् ।
पैप्पलादं मोक्षशास्त्रं परिसमाप्तं पैप्पलादं मोक्षशास्त्रं परिसमाप्तमिति ॥ ५ ॥</verse>
<trailer>ॐ सह नाववत्विति शान्तिः ।</trailer>
<trailer text="END">इति गर्भोपनिषत्समाप्ता ॥ १७ ॥</trailer>
<title text="START">नारायणाथर्वशिरउपनिषत् ॥ १८ ॥</title>
<verse>मायातत्कार्यमखिलं यद्बोधाद्यात्यपह्नवम् ।
त्रिपन्नारायणाख्यं तत्कलये स्वात्ममात्रतः ॥</verse>
<p>ॐ स<error> </error>ह नाववत्विति शान्तिः ॥</p>
<p merge-next="true">ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ॥ नारायणात्प्राणो
जायते मनः सर्वेन्द्रियाणि च ॥ खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
नारायणाद्ब्रह्मा जायते ॥ नारायणाद्रुद्रो जायते ॥ नारायणादिन्द्रो जायते ॥
नारायणात्प्रजापतिः प्रजायते ॥ नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि
च्छन्दांसि ॥ नारायणादेव समुत्पद्यन्ते ॥ नारायणात्प्रवर्तन्ते ॥ नारायणे प्रली-
यन्ते ॥ एतदृग्वेदशिरोऽधीते ॥ १ ॥ अथ नित्यो नारायणः ॥ ब्रह्मा नारायणः ॥
शिवश्च नारायणः ॥ शक्रश्च नारायणः ॥ कालश्च नारायणः ॥ दिशश् नारा-
यणः ॥ विदिशश्च नारायणः ॥ ऊर्ध्वं च नारायणः ॥ अधश्च नारायणः ॥
अन्तर्बहिश्च नारायणः ॥ नारायण एवेदं सर्वं यद्भूतं यच्च भव्यम् ॥ निष्क-
लङ्को निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽ-
स्ति कश्चित् ॥ य एवं वेद स विष्णुरेव भवति स विष्णुरेव भवति ॥ य
एतद्यजुर्वेदशिरोऽधीते ॥ २ ॥ ॐमित्यग्रे व्याहरेत् ॥ नम इति पश्चात् ॥
नारायणायेत्युपरिष्टात् ॥ ॐमित्येकाक्षरम् ॥ नम इति द्वे अक्षरे ॥ नाराय-
णायेति पञ्चाक्षराणि ॥ एतद्वै नारायणस्याष्टाक्षरं पदम् ॥ यो ह वै नारायण-
स्याष्टाक्षरं पदमध्येति । अनपब्रुवः सर्वमायुरेति ॥ विन्दते प्राजापत्यं राय-
स्पोषं गौपत्यं ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति ॥ एतत्सामवेदशिरो-
ऽधीते ॥ ३ ॥ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् ॥ अकार उकारो मकार
इति ॥ ता अनेकधा समभवत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्मसंसार-
बन्धनात् ॥ ॐ नमो नारायणायेति मंत्रोपासको वैकुण्ठभुवनं गमिष्यति ॥
तदिदं पुण्डरीकं विज्ञानघनं ॥ तस्मात्तडिदाभमात्रम् ॥ ब्रह्मण्यो देवकीपुत्रो</p>
</page>