This page has not been fully proofread.

३५०
 
ईशायुपनिषत्सु -
 
पचमे मासे पृष्ठवंशो भवति ॥ षष्ठे मासे मुखनासिकाक्षिश्रोत्राणि भवन्ति ॥
सप्तमे मासे जीवन संयुक्तो भवति ॥ अष्टमे मासे सर्वसंपूर्णो भवति ॥ पि
रेतोऽतिरिक्तापुरुषो भवति मातू रेतोऽतिरिक्तात्स्त्रियो भवन्त्युभयोर्बीजतुल्य-
स्वान्नपुंसको भवति ॥ व्याकुलितमनसोऽन्धाः खञ्जाः कुब्जा वामना भवन्ति ॥
अन्योन्यवायुपरिपीडित शुक्रद्वैध्याद्विधा तनूः स्यात्ततो युग्माः प्रजायन्ते ॥
पञ्चात्मकः समर्थः पञ्चात्मिका चेतसा बुद्धिर्गन्धरसादिज्ञाना ध्यानात्क्षरमक्षरं
मोक्षं चिन्तयतीति । तदेकाक्षरं ज्ञात्वाऽष्टौ प्रकृतयः षोडश विकाराः शरीरे
तस्यैव देहिनाम् ॥ अथ मात्राऽशितपीत नाडीसूत्रगतेन प्राण आध्यायते ॥
अथ नवमे मासि सर्वलक्षणसंपूर्णो भवति पूर्वजातीः स्मरति कृताकृतं च कर्म
भवति शुभाशुभं च कर्म विन्दति ॥ ३ ॥ नानायोनिसहस्राणि दृष्ट्वा चैव ततो
मया ॥ आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः ॥ जातस्यैव मृतस्यैव
जन्म चैव पुनः पुनः ॥ अहो दुःखोदधैौ मग्नो न पश्यामि प्रतिक्रियाम् ॥ य-
न्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् ॥ एकाकी तेन दह्यामि गतास्ते फ-
लभोगिनः ॥ यदि योन्यां प्रमुञ्चामि सांख्यं योगं वा संमाश्रये ॥ अशुभक्षयकर्तारं
फलमुक्तिप्रदायकम् ॥ यदि योन्यां प्रमुच्यामि तं प्रपद्ये महेश्वरम् ॥ अशुभक्ष
यकर्तारं फलमुक्तिप्रदायकम् ॥ यदि योन्यां प्रमुञ्चामि तं प्रपद्ये भगवन्तं नारा-
यणं देवम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥ यदि योन्यां प्रमुञ्चामि
ध्याये ब्रह्म सनातनम् ॥ अथ जन्तुः स्त्रीयो निशतं योनिद्वारि संप्राप्तो यन्त्रेणा-
पीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्य तदा न
स्मरति जन्ममरणं न च कर्म शुभाशुभम् ॥ ४ ॥ शरीरमिति कस्मात्, साक्षा-
दमयो ात्र श्रियन्ते ज्ञानाभिर्दर्शनाभिः कोष्ठाग्निरिति ॥ तत्र कोष्ठाभिर्नामाशि-
तपीतलेाचोष्यं पचतीति ॥ दर्शनानी रूपादीनां दर्शनं करोति ॥ ज्ञानाभिः
शुभाशुभं च कर्म विन्दति यस्तत्र ॥ त्रीणि स्थानानि भवन्ति हृदये दक्षिणा-
मिरुदरे गार्हपत्यं मुखादाहवनीयात्मा यजमानो बुद्धिः पत्तीं मनो ब्रह्मा नि.
भ्राय लोभादयः पशवो धृतिदक्षा संतोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मे-
न्द्रियाणि हवींषि शिरः कपालं केशा दभी मुखमन्तर्वेदिः, चतुष्कपालं शिरः
षोडश पार्श्वदन्तोष्ठपटलानि सप्तोत्तरं मर्मशतं साशीतिकं संधिशतं सनवकं
स्नायुशतं सप्त शिराशतानि पञ्च मज्जाशतानि अस्थीनि च ह वै त्रीणि शतानि
षष्टिश्वार्धचतस्रो रोमाणि कोढ्यो हृदयं पलान्यष्टौ द्वादश पलानि जिह्वा पित्तप्रस्थं
 
१ समभ्यसेत् ।