This page has been fully proofread once and needs a second look.

<page>
<p lang="sa">ईशादिविंशोत्तरशतोपनिषदः</p>
<subtitle lang="sa">॥ ॐ तत्सत् ॥</subtitle>
<title lang="sa">ईशावास्योपनिषत् ॥ १ ॥</title>
<verse lang="sa">ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १ ॥</verse>
<verse>ॐ शान्तिः शान्तिः शान्तिः ॥</verse>
<verse lang="sa">ॐ ईशा वास्यमिदꣳ सर्वं यत्किंच जगत्यां जगत् ॥ तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥</verse>
<verse>कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः॥ एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ २ ॥</verse>
<verse>असूर्या नाम ते लोका अन्धेन तमसावृताः॥ ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥</verse>
<verse lang="sa">
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ॥ तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥ </verse>
<verse>तदेजति तन्नैजति तद्दूरे तद्वन्तिके ॥ तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥ </verse>
<verse>यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ॥ सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥</verse>
<verse> यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ॥ तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥</verse>
<verse>स पर्यगाच्छुक्रमकायमत्रणमस्त्राविरꣳशुद्धमपापविद्धम् ॥ कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥</verse>
<verse> अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ॥ ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥९॥</verse>
<verse>अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१०॥ </verse>
<verse>विद्यां चाविद्यां च यस्तद्वेदोभयꣳ स ह ॥ अविद्यया मृत्युं तीर्त्वा विंद्ययामृतमश्नुते ॥ ११ ॥</verse>
<verse> अन्धन्तमः प्रविशन्ति येऽसंभूतिमुपासते ॥ ततो भूय इव ते तमो य उ संभूत्याꣳ रताः ॥ १२ ॥</verse>
<verse> अन्यदेवाहुः संभवादन्यदाहुरसंभवात् ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥ </verse>
<verse>संभूतिं च विनाशं च यस्तद्वेदोभयः सह ॥ विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्रुते ॥ १४ ॥</verse>
<verse>
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ॥ तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥ </verse>
<verse>पूषन्नकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ॥ तेजो यत्तेः रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥</verse>
<footnote lang="sa">१ मर्त् </footnote>
<footnote> २ विचिकित्सति</footnote>
<footnote> ३ अन्यदेवाहुर्विद्याया अन्यदाहुरविद्यायाः .</footnote>
</page>